पृष्ठम्:चम्पूभारतम्.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५६
चम्पूभारते


दुर्योधने विशति मौलिभुवा पद स्व
 शूराग्रणीष्वचरम सुरसिन्धुसूनु ।
अर्धक्षणा[१]दरिभटास्त्रिदिवे विधास्य-
 न्नध्यक्षतापदमविक्षनीकिनीनाम् ॥ ७ ॥
पार्था[२]श्च ते द्रुपदनन्दनमाशु चक्रु
 सेनान्यमुद्धतविरोधिवनानि दुखुम् ।
वह्नि प्रतापकपटान्निजजन्मकाले
 सक्त भुजे वहति य सतत ज्वलन्तम् ॥ ८ ॥

अर्थ सदसि महारथपरिगणनकथायामर्धरथोऽयमिति जा[३]ह्वीयेन निह्रुतपौरुषतया रोषचिह्नितवदनरोचिरह्मापति[४]सूनुरह्राय [५]तस्यावधिमेव निजहेतेरधारणस्यापि साधारण प्रतिजज्ञे ॥


 दुर्योधन इति । शूराणा अग्रणीषु श्रेष्ठेषु अचरम प्रथम सुरसिन्वो सूनु गाड्गेय भीष्म दुर्योधने मौलिभुवा किरीटप्रदेशेन स्व खीय पद चरण विशति नमस्कुर्वंति सति । अर्धक्षणात् क्षणार्धात् अरिभटान् त्रिदिवे खर्गे विधस्यन् करिष्यन् सन् । हनिष्यन्निति यावत् । अनीकिनीना सेनाना अध्यक्षतापद प्रमुत्व स्थान अविक्षत् प्रविष्टवान् । सेनाधिपतिर्बभूवेत्यर्थ । विशे कर्तरि लुड् ॥ ७॥

 पार्था इति । ते पार्थाश्च द्रुपदस्य नन्दन वृष्टघुम्न । सेना नयतेि गमय तीति सेनानी त सेनान्य सेनाधिपति आशु चक्त्रु य धृष्टधुम्न निजस्य जन्मन वह्निकुण्डादुत्पत्ते काले सक्त ज्वलन्त वहि अग्नि उद्धतान् गर्वितान् विरोधिन शत्रूनिव वनानि दग्धु प्रतापस्य कपटात् व्याजात् भुजे सतत वहति त द्रुपदनन्दनमिति योज्यम् । अपह्नवालकार ॥ ८ ॥

 अथेति । अथ सदसि सभायाम् ‘आत्मान सारथि चाश्वान्रक्षन्युध्यति यो नर । स महारथसज्ञ स्यात्’ इत्युक्तलक्षणलक्षिताना महारथाना परिगणनकथया सख्याप्रसङ्गे । अय कर्ण जामदग्न्यब्राह्मणशापादिपराभूत अर्घरथ इत्युकप्रकार जाह्नवीयेन भीष्मेण निह्रुत तिरस्कृत पौरुष शौर्य यस्य तस्य भाव तत्ता तया हेतुना रोषशब्देन तत्कार्यं लक्ष्यते । भ्रुकुट्यादिना चिह्नित वदनस्य रोचि तेज यस्य तथोक्त अह्नापत्यु सूर्यस्य सूनु कर्ण तस्य भीष्मस्य अवधिं मरणमेव निजाया हेते आयुवस्य सबन्धिन अधारणस्य अप्रहणस्यापि साधारण तुल्य अह्याय सत्वर प्रतिजज्ञे । भीष्म निधनपर्यन्त आयुध न धारयामीति प्रतिज्ञातवानित्यर्थ । ‘अवसाने परिच्छेदे साम्नि काले बलेऽवधि इति रत्नमालायाम् ॥


  1. ‘रिपुभटान्' इति पाठ
  2. ‘तु’ इति पाठ
  3. ‘जाह्नवेयेन’ इति पाठ
  4. ‘कुमार ’ इति पाठ
  5. ‘युधि तस्य ' इति पाठ