पृष्ठम्:चम्पूभारतम्.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५४
चम्पूभारते


तेषा कुरूणा कलहोदयात्प्राग्रथस्वनाना करिबृहितानाम् ।
आशामशेषा स्ववशे विधातुमन्योन्यमासीत्कलहो महीयान् ॥४॥
 नाम्ना वो[१] नवमग्रहस्य समता सोढास्महे हे[२]वय
  तुङ्गत्व न सहेमहीत्यतिरुषा सनाह[३]धुर्या इव ।
 उद्दण्डा अपि केतवो ददृशिरे स्थान ग्रहाणामति-
  क्रम्य स्यन्दनवृन्दमौलिकलिता मध्येनभस्वत्प[४]थम् ॥ ५ ॥
महीपतीना पटमन्दिराणि मार्ग सुराणा लिलिहु शिरोमि ।
वय हि दूष्याणि शुचीभमेत्यभ्रापगावारिमिमङ्क्षयेव ॥ ६ ॥


ण्डल अजनयन् उत्थापयन्ति स्म । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इति विश्व । शादूलविक्रीडित वृत्तम् ॥ ३ ॥

 तेषामिति । तेषा कुरूणा पाण्डवधार्तराष्ट्राणा क्लहस्य युद्धस्य उदयात् प्राक् आरम्भात् पूर्वमेव अशेषा आशा दिश स्ववशे विधातु कर्तु रथस्वनाना करिबृहिताना च अन्योन्य महीयान् दुनिवार कलह आसीत् । रथनेमिघण्टागजकोलाहलै दशापि दिश सान्द्रा बभूवुरित्यर्थ । अत्र दिक्परिपालनव्यापनयो क्ष्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्या ‘ससर्गजा दोषगुणा भवन्ति’ इति प्रसिद्धतादृशकौरवसबन्धित्वकृताशेषराज्याभिलाषहेतुककलहोत्प्रेक्षाप्रतीतेर लकारेणालकारध्वनि ॥ ४ ॥

 नाम्नेति । अपि किचेत्यर्थ । स्यन्दनवृन्दस्य रथकटथाया मौलिषु अग्रेषु कलिता घटिता ऊर्ध्वा दण्डा येषा ते उहण्डा केतव ध्वजा । हे ग्रहा सूर्योदय , वय व युष्माक मध्ये नवमस्य ग्रहस्य केतो समता साम्य नाम्ना नाममात्रेण सोढास्महे क्षन्तास्महे । सहे कर्तरि लुट्। तुङ्गत्व औन्नत्य तु न सहेमहि न क्षमेमहि । व इत्यत्रापि योज्यम् । सहे कर्तरि लिड्। इत्युक्तप्रकारथा अतिरूषा भृश क्रोधेन सनाहधुर्या रणोघुक्त्ता इवेत्युत्प्रेक्षा । ग्रहाणा नवानामपि स्थान मण्डल अतिक्रम्य मध्येनभस्वत्पय महावायुपथस्य मध्ये ददृशिरे दृष्टा । लोकैरिति शेष । उक्त्तो त्प्रेक्षानुप्राणितातिशयोक्त्यलकार असबन्धे सबन्धरूप ॥ ५ ॥

 महीपतीनामिति । महीपतीना उभयेषा राज्ञा पटमयानि मन्दिराणि (कतृणि) हि यस्मात्कारणात् वय दूष्याणि अपरिशुद्धानि । दूष्येति सज्ञावन्ति च । ‘दूष्याद्य वन्नवेश्मनि’ इत्यमर । तस्मात् कारणाच्छुचीभवेम परिशुद्धानि भवेम । इत्यालोच्येति शेष । अभ्रापगाया आकाशगङ्गाया वारिणि मिमक्ष्हया मड्क्त्तु स्नातु इच्छयेवेत्युत्प्रेक्षा । शिरोभि शिखरभागै सुराणा मार्ग आकाश लिलिहु पस्पृशु । अत्राप्यतिशयोक्त्ति पूर्ववत् ॥ ६ ॥


  1. ‘बा’ इति पाठ
  2. ‘अमी’ इति पाठ
  3. ‘धूर्या’ इति पाठ
  4. ‘पदम्' इति पाठ