पृष्ठम्:चम्पूभारतम्.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
नचमः स्तबकः ।


अथोभये ते कुरवो रणाय स्वनामधेयो[१]पपदप्रसिद्धम् ।
क्षेत्र व्यगाहन्त निरुद्धापार्क्ष्वा शताङ्गमातङ्गतुरगयोधै ॥ १ ॥

 हिरण्वत्यास्तत्र त्रिदशविनुतायास्त[२]टरुह-
  प्रसूनाना गन्धैर्मथितपथिखेदा । करिघटा ।
 कृतज्ञत्वेनेव[३] स्वयमपि [४]मदाम्भोधिलहरी-
  र्ददुस्तस्यै बह्वीरतिसुरभिगन्धी प्रियसखी ॥ २ ॥

 अस्मज्जन्मभुव समानभिधया सप्तापि सिन्धूनिमा-
  न्नेष्यामो वयमद्य शोषणमिति स्फीताभ्यसूया इव।
 सेनासैन्धवपङ्क्त्त्य खुरपुटैर्दीप्रभुरप्रोपमै-
  भूमेरुद्विखितात्त[५]लादजनयन्भूयो रजोमण्डलम् ॥ ३॥


 अथेति । अथ कुन्तीगमनानन्तर ते प्रसिद्ध उभये कुरव पाण्डवा धार्तराष्ट्राश्च रणाय युद्ध कतुमिति ‘क्रियार्थं-' इत्यादिना चतुर्थी । शताङ्गै रथे , मातीङ्गै गजै , तुरगै अक्ष्वै , योधै पदातिभिश्च निरुद्धा सगता पार्श्वाक्ष्चत्वारो येषा तै तथोक्ता सन्त । स्वेषा नामधेय कुरुरिति सज्ञाशब्द उपपद पूर्वपद यस्य तेन कुरुक्षेत्रमिति शब्देन प्रसिद्ध व्यवहृत क्षेत्र व्यगाहन्त विविशु ॥ १ ॥

 हिरण्वत्या इति । तत्र कुरुक्षेत्रे करिण गजाना घटा बृन्दानि । त्रिदशै देवै विनुताया स्तुताया हिरण्वत्या नाम नद्या तत्रत्याया तटरुहणा तीरट्टक्षाणा यानि प्रसूनानि कुसुमानि तेषा गन्धै मथित निरस्त पथिखेद मार्गश्रम येषा तयोक्ता सन्त । कृतज्ञत्वेन उपकारस्मरणेन हेतुना स्वयमपि अतिसुरभि भृश प्राणतर्पण गन्ध यासा ता अतिसुरभिगन्धी बी अनेझ मदाम्भोधे दानजलसमुद्रस्य लहरी । लक्षणया प्रवाहान् । तस्यै हिरण्वत्यै । प्रियसखी ददुरिवेत्युत्प्रेक्षा । शिखरिणीवृत्तम् ॥ २ ॥

 अस्मदिति । नत्र सिन्घौ नाम देशे भवा सैन्धवा अश्व सेनासु तेषा पङ्क्त्तय अस्माक जन्मभुव सिन्धुदेशस्य अभिधया नाम्ना समास्तुल्यान् । तन्नामकानिति यावत् । इमान्’ सप्तसिन्धून् समुद्रानपि वयमद्य शोषण नेष्याम प्राप यिष्याम । इत्युक्तप्रकारेण स्फीता प्रवृद्धा अभ्यसूया कोप यासा तथोक्त्ता इवे त्युत्प्रेक्षा । दीमा उजवळा । क्षुर्नै खङ्गभेदै उपमा सादृश्य येषा तै खुरा पुढानीव तै उल्लिखितात् निष्पिष्टात् भूमेस्तलात् भूय बहुल रजोमण्डला धूलिम-


  1. ‘उपपद’ इति पाठ
  2. ‘तटतरु’ इति पाठ
  3. ‘एव’ इति पाठ
  4. ‘मदाम्भोठहरिभि ’ इति पाठ
  5. ‘स्थळात्’ इति पाठ