पृष्ठम्:चम्पूभारतम्.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४८
चम्पूभारते


एतै स्तवैर्दष्टमना यथायैर्मन्दस्मितश्रीमधुराधरोष्ठ ।
पीठादुदस्थादथ पीतवासा मेरोर्नितम्बादिव मेघशाव ॥ ६७ ॥
 आस्थानाद्वहिरेत्य कैटभरिपुर्गाङ्गेयमालिङ्गय त
  पक्ष्चार्धे परिमृश्य भूपमितरानापृच्छय सर्वान्कुरून ।
 आघ्रायातिचिरेण मूर्ध्नि विदुर युक्त शताङ्ग हयै-
  रारूढोऽभिययौ विराटनगरीमन्त स्मरन्पाण्डवान् ॥६८॥
 श्रुत्वा तत परमत पुरुषोत्तमाते
  फेनायमानरणसनहनाब्धिपूरा ।
 आराधयन्विधिवदस्त्रगण श्मशाने
  पीता वमन्तमिव कान्तिमिषेण धूम्याम् ॥ ६९ ॥


 एतैरिति । एतै उक्तबिधे यथार्धै । न त्वारोपितैरित्यर्थ । स्तवै हृष्ट सतुष्ट मनो यस्य स । अतएव मन्दस्मितस्य दरहासस्य श्रिया कान्स्या मधुर मनोज्ञ अधरोष्ठ यस्य स । पीत वास वस्र यस्य स श्रीकृष्ण । अथ मुनिस स्तत्रानन्तर पीठात् मेघशाव तरुणमेघ मेरो नितम्बात् कटकादिव । उदस्थात् उस्थितवान् । उत्पूर्वातिष्ठते कर्तरि छुट् । उपमालफार ॥ ६७ ॥

 आस्थानादिति । कैटभस्य दैत्यस्य रिपु श्रीकृष्ण आस्थानात् सभाया । ‘सभासमितिससद । आस्थानी क्लीबमास्थान स्त्रीनपुसकयो सद ॥’ इत्यमर । बहिरेत्य त भगवद्भक्त्या प्रसिद्ध गङ्गाया अपत्य गाङ्गेय भीष्मम् । ‘स्त्रीभ्यो ढक्’ इति ढक् । आलिङ्गय भूप धृतराष्ट्र पश्चार्धे ऊर्ध्वकये परिमृश्य सस्पृश्य । इतरान् भूपादन्यान् सर्वान् कुरून् सोमदत्तादीन् आपृच्छथ गमनप्रश्न कृत्वा । विदुर मूर्ध्नि अतिचिरेण आघ्राय परिचुम्ब्य। पुत्रवत् वात्सल्यादितिभाव । हयै अक्ष्वै सैन्यादिभि युक्त्त शताङ्ग रथ आरुढ सन् विराटनगरी प्रति अन्त मनसि पाण्डवान् स्मरन् सन् । अभिययौ प्रतस्थे । शार्दूलविक्रीडितम् ॥ ६८ ॥

 श्रुत्वेति । तत पुरुषोत्तमात् श्रीकृष्णात् । हास्तिनपुरागतादिति शेष । परस्य शत्रो दुर्योधनस्य मतम् ‘सूच्यग्र न प्रदास्यामि पाण्डवेभ्यो भुव स्थलम् इति पक्ष क्षुत्वा । फेनायमान अतिप्रवर्धमान रणसनहनयुद्धोद्योग एवाब्धिपूर समुद्रप्रवाह येषा तथोक्ता ते पाण्डवा कान्तािमिषेण नित्यरूपव्याजेन श्मशाने पीता कवलिता धूम्या चिताधूमस वसन्त उद्भिरन्तमिव स्थित अस्राणा आयुधाना गण विधिवत् यथाशात्र आराधयन् पूजयामासु । आङ्पूर्वाद्धे कर्तरि लड। अत्र प्रवर्धमानरणसनाहस्य विशेषणगल्याहति स्वेष्टदेवताभूतास्त्रपूजनहेतुत्वात्काव्यलिङ्गभेद वमन्तमिति सापह्नवोत्प्रेक्षया रणसनाहनाब्धिपूरेति रूपकेण च ससृष्ट ॥ ६९ ॥