पृष्ठम्:चम्पूभारतम्.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४३
अस्तम स्तबक ।


ओजस्तवेदमुपसहर माधमेति
 घुष्यत्सु सत्सु गुरुभीष्मपुरोगमेषु ।
घोर विहाय निमिषेण कुशेशयाक्षो
 गोपीदृशा कुतुकहेतुमवाप रूपम् ॥ ५६ ॥

 ततस्तादृश नि[१]रूपमान तस्य महिमानमनुभूय चरितार्थो मुनि[२] सार्थ शान्तमूर्ति तमेवमस्तौषीत् -----

 भगवन्, महात्मभिरपि योगिभिरविदितप्रभावाय तस्मै भ[३]वते नम ।


भूमिपाल वृतराष्ट्र । चक्षुष्मता सनेत्राणा धुर रीतिम् । चक्षुष्मत्तामिति यावत् । मुहूर्त अल्पकाल समधिरह्य प्राप्य भूय तादृग्महिमान भगवन्त दृष्ट्वा पुनरपि तत चक्षुष्मद्रीते अवततार अपक्रान्तवान् । अन्धो बभूवेत्यर्थ । आजन्मन कचिदपि अनवलोक्य अवलोक्य चाद्य जगन्मय भगवन्त पुनरन्यावलोक्नस्याति जुगुप्सितत्वादिति भाव । अत्र त्रिलोकीत्यादिविशेषणस्य तत्तादृक् अपराधिदुर्या । धनजनकत्वेऽपि धृतराष्ट्रस्य चक्षुर्दानौचित्याभिप्रायगर्भत्वात्परिकराळकार ॥५५॥

 ओज इति । हे माधव श्रीकृष्ण, तव वय इद विश्वात्मक विश्वभयकर च ओज रूप उपसहर सक्षिप । इत्युकप्रकारेण गुरु द्रोण भीष्मश्च दौ पुरोगमौ प्रधानौ येषा तेषु सत्सु सज्जनेषु घुष्यत्सु उच्चै शब्दायमानेषु सत्सु कुशेशये कमले इव अक्षिणी यस्य तथोत श्रीकृष्ण । ‘शतपत्र कुशेशयम्' इति कमल पर्यायेष्वमर । निमिषेण क्षणेनैव घोर जगद्भयक्र रूप विश्वाकार विहाय गोपीना गोपाङ्गनाना दृशा नेत्राणा कुतुकहेतु कौतूहलकारण रूप चतुर्मुजादि विशिष्टमाकार अवाप आप्तवान् । प्रसन्ने भगवति कि दुर्लभ महता इति भाव । अत्र गोपीडक्कुतुत्ववस्तुना अतिमूढाना तासामेव नयनानन्दकरत्वे किमुतान्येषा इत्यर्थापत्त्यलकारप्रतीते वस्तुनाळकारध्वनि ॥ ५६ ॥

 तत इति । तत उक्तरूपस्खीकारानन्तर तादृश तद्विध अतएव निरुपमान असदृश तस्य भगवत महिमान प्रभाव अनुभूय दृष्ट्वा चरितार्थ कृतार्थं मुनीना सार्थ सध । शान्ता लोकलोचनानन्दकरी मूतिर्यस्य तथोक्त त श्रीकृष्ण एव वक्ष्यमाणप्रकारेण अस्तौषीत् स्तुतवान् । स्तौते कर्तरि लुड् ॥

 भगवन्निति । हे भगवन् श्रीकृष्ण, महान् ब्रह्मात्मैक्यानुसधानात्तदैक्यावाप्त्या अपरिच्छिन्न आत्मा चित्प्रतिबिम्ब जीव येषा तथोक्त्तै । योग ब्रह्मणि मनोलयजनक साख्यतारकमनस्कनामभि (९)प्रसिद्ध एषामस्तीति योगिभिरपि अविदित अज्ञात प्रभाव सामर्थ्य जगज्जन्मादिकर्तृत्व यस्य तथोक्ताय तस्मै भवते तुभ्य नम । इतीदमग्रिमदशक्ष्लोक्येकवाक्यम् ॥


  1. ‘तस्य निरुपमान’ इति पाठ
  2. ‘सार्थं समुपसृत्य’ इति पाठ
  3. प्रम बते भवते भगवते’ इति पाठ