पृष्ठम्:चम्पूभारतम्.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३९
अस्तम स्तबक ।

बन्धूपदिष्ट न शृणोषि वत्स सधानमस्मिन्न तवाद्य दोष
गन्धर्व[१]राजेन कृत वनान्ते बन्ध पुनर्मुक्तवता हि तेषाम् ॥४७ ॥
 

इति नि[२]गदितवति भगवति क्रोधन सुयोधनोऽपि गिरमिमामु[३]ज्जगार।

[४]अये नन्दनन्दन, केवल विराटतनयाश्रयलाभेन कृतकृत्य[५]मन्यमानाना कुन्तीभुवा च बहुभिर[६]क्षौहिणीपतिभिरनुक्षणमावेद्यमाना[७]ञ्जलिधोरणी[८] मवलोकयितुमप्यलब्धावसराणामस्माक च किं वा सधान कि वा तव दूतकृत्य कि वा मया देयमीदृग्विध मुधायासमवधूय य [९]थागत गन्तव्यमिति ।


 बन्ध्विति । हे वत्स शिशुचत्कर्तव्यानभिज्ञ, त्व बन्धुभि उपदिष्ट वोवित सधान सघि न शृणोषि नाङ्गीकारोषीति यत् अस्मिन् स यनङ्गीकारे विषये अद्य तव दोष अपराव न भवति । कितु वनान्ते द्वैतवनमध्ये गन्धर्वराजेन चित्रसेनेन कृत बन्ध त्वदीय पुनर्मुक्तवता मोचितवता तेषा हि पाण्डवानामेव दोष भवति । अत्र क्रमेण दोषगुणयो बन्धूक्त्तध्यनङ्गीकारबन्धमोचनयो गुणत्वस्य दोषत्वस्य च वर्णनाल्लेशालकारदूय अङ्गाङ्गिभावेन सकीर्णम् ॥ ४७ ॥

 इतीति । इत्युक्त्तप्रकारेण भगवति श्रीकृष्णे निगदितवति उक्तवति सति क्त्तोवन कुपित सुयोधन दुर्योधनोऽपि इमा वक्ष्यमाणा गिर वाक्य उज्जगार उक्तवान् ।

 अये इति । नन्दो नाम कश्चिद्रोपाल तस्य नन्दन पुत्र तस्य सबुद्धि अये नन्दनन्दन हे श्रीकृष्ण, इत्यामन्त्रण गोपालाना मौढथप्रसिद्धिमनुरुध्येति ध्येयम् । विराटतनयया उत्तरया अभिमन्यवे दत्तया आश्रय विराटरूप तल्लाभेन । केवल तलाभमात्रेण स्त्रीमूलकाश्रयोपजीवनेनेत्यर्थ । विराटतनय उत्तर रणभीरु स एवाश्रय तल्लाभेनेति वा । उभयथापि मौढयोद्धाटनम् । कृत ' कृत्य मन्यमानाना आत्मान कृताथ सभावयताम् । ‘आत्ममाने खश्च’ इति खशि खित्वात् ‘अरद्विषत्-' इत्यादिना मुम् । कुन्तीभुवा धर्मराजादीना च । अत्र ‘कुन्तीभुबा’ इति पाठ स्त्रैणेयत्वप्रकाशोक्ति । अनुक्षण बहुभिरक्षौहिणीप तिभि आवेद्यमाना विज्ञाप्यमान अञ्जलिधोरणी नमस्कारपरम्परा अवलो कयितुमपि अलब्ध अवसर अवकाश यैस्तेषामस्माक च उभयेषा सधान सधि किवा कीदृश । अनुचित एवेत्यर्थ । प्रबलान दुर्बलै सह सधे लोकवेदोभयदूषितत्वादिति भाव । तव दूतकृत्य कि वा । मया देय दातव्य कि वा । ईदृशी विधा प्रकार यास्मिस्तथोक्तम् । मधायास निरर्थक्श्रम


  1. अय क्ष्लोक केषुचित्पुस्तकेषु न दुश्यते
  2. ‘प्रगदित ’, ‘गदित’ इति च पाठ
  3. ‘उज्जहार’ इति पाठ
  4. ‘अरे’ इति पाठ
  5. ‘भयानाम्’ इति पाठ
  6. ‘अक्षौहिणीभि ’ इति पाठ
  7. अञ्जली’ इति पाठ
  8. ‘अवलोकितुम्’ इति पाठ
  9. ‘भवता यथा' इति पाठ