पृष्ठम्:चम्पूभारतम्.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३७
अस्तम स्तबक ।


 इति सि[१]द्धान्तितवति बद्धाञ्जलौ राजनि निजासनार्धनिवेशि[२]तकरतलतया किचिदुन्नमितवामभुजशिखरेण [३]गण्डमण्डले निमज्जितमकरकुण्डल क[४]टिचलनकन्दलितकाञ्चनपटमर्म[५]रारबमीषत्कधरा विनिवर्त्य

कलृप्तस्मित रविभुवा कृतहस्तताल
 दु शासनेन धुरि दूषितसाधिपक्षम्।
कर्णोपकण्ठचलितावरमातुलास्य
 कौरव्यमाह कुरुससदि कसवैरी ॥ ४२ ॥
पृथासुतेभ्य पृथिवी तदीया पुनार्दिशेति ब्रुवतो गुरोर्गाम् ।
अशृण्वत पौ[६]रब ते कथ वा सभूतिरेषा शशिनोऽन्ववाये ॥ ४३ ॥


 इतीति । इत्युक्तप्रकार बद्धाञ्जलौ राजनि धृतराष्ट्रे सिद्धान्तितवति प्रकृतकार्य निश्चितवति सति । निजस्य आसनस्य रत्नपीठस्य अर्धे मध्ये निवेशित निक्षिप्त करतल येन तस्य भाव तत्ता तया हेतुना किचित् उन्नमितेन वामभुजस्य शिखरेण अग्रभागेन गण्डमण्डले वामकपोलमध्ये निमज्जित प्रवेशित मकराकृतिकुण्डल यस्मिन् तत्तथा । कटे नितम्बस्य चलनेन तिर्यग्व्यावर्तनेन कन्दलित सजात काञ्चनपटस्य पीताम्बरस्य मर्मरारव मर्मरेतिशब्द यस्मिस्तत्तथा । ईषत् किचित् कधरा ग्रीवा विनिवर्त्य अम्यावर्त्य इत्युत्तरेणान्वय ॥

 कलृप्तेति । कसवैरी कृष्ण रविभुवा कर्णेन सह कृता हस्ताभ्या ताला मिथस्ताडनानि यस्मिंस्तत्तथा कलृप्त निर्मित स्मित येन तम् । बुरि अग्रे दु शासनेन भ्रात्रा दूषित निन्दित सधिपक्ष सधिना साध्य यस्य तम् । कर्णस्य श्रोत्रस्य उपक्ण्ठे मूले चलित गूढसधिपक्षदूषणेन कम्पित अवर यस्य तादृश मातुलस्य शकुने आय वक्त्र यस्य तथोक्तम् । कौरव्य दुर्योधन प्रति कुरुससदि कौरवसभायाम् । शृण्वन्त्या सत्यामिति शेष । आह वक्ष्यमाणप्रकारेण उवाच ॥ ४२ ॥

 पृथेति । हे पौरव दुर्योधन, पृथासुतेभ्य धर्मराजादिभ्य तेषामिमा तदीयाम् । न तु त्वदीयमित्यर्थ । पृथिवी भूमि शृतेनापहृता पुन प्रतिज्ञाप्रकार दिश प्रयच्छ इत्युकप्रकारेण ब्रुवत कथयत गुरो पितु गा वाक्य अशृण्वत उक्लङ्द्यत ते तव सबन्धिनी एषा पित्राक्षोल्लङ्घिनी सभूति जन्म शशिन चन्द्रस्य अन्ववाये वशे क्थ वेत्याश्चर्यं । अभूदिति योज्यम् ॥ ४३ ॥


  1. ‘सिखान्तवति’ इति पाठ
  2. 'विनिवेशित’ इति पाठ
  3. ‘गण्डमण्डल' इति पाठ
  4. ‘कटितटचलन’ इति पाठ
  5. ‘ममरमीषत्’ इति पाठ
  6. ‘कौरव'इति पाठ