पृष्ठम्:चम्पूभारतम्.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३६
चम्पूभारते


इत्थ ब्रुवाण यदुवीरमेन निश्वस्य दीर्घे नृपतिर्बभाषे ।
व्यरसिष व्यध्वममु विमुञ्च विमुञ्च वत्सेत्यनुशास्य शौरे ॥३९॥
 मधुमथन निमीलिता मुनीन्द्रे
  मम जननी खलु पुत्रवत्सला सा ।
 मुखमहमनवेक्ष्य मूर्खसूनो-
  र्मुदमधिकामधुना यया दधामि ॥ ४० ॥
 स्वयमपि न विबुध्यते सुतोऽय
  सुमतिजनस्य शृणोति नापि वाचम् ।
 कुरुकुलकुशलाडुराभिवृद्भयै
  गुणगणवारिनिधे गतिस्त्वमेव ॥ ४१ ॥


“धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि’ इति नानाथरत्नमालायाम् । इति विज्ञापयन्ति स्मेति पूर्वेणान्वय ॥ ३८ ॥

 त्थमिति । इत्थ उक्तप्रकार ब्रुवाण पाण्डवविज्ञापना कथयन्त एन यदुवीर श्रीकृष्ण प्रति नृपति वृतराष्ट्र दीर्घ यथा तथा निश्वस्य हे वत्स दुर्योधन, अभु व्यध्व दुर्मार्ग पाण्डववैररूप विमुञ्च विमुञ्च त्यज त्यज । इत्यादराद्विरुक्ति । इत्युक्तप्रकारेण अनुशास्य शिक्षयित्वा हे शौरे श्रीकृष्ण, अह व्यरसिष विरत- वानस्मि । शान्तवानस्मीत्यर्थ । इति बभाषे उक्तवान् ॥ ३९ ॥

 मधुमथनेति । किच हे मधुमथन मधुनामकदैत्यनाशक कृष्ण, सा प्रसिद्धा मम जननी अम्बिका पुत्रे मयि वत्सला खलु दयालु सत्येव मुनीन्द्रे व्यासे विषये निमीलिता मुकुलितनेत्राभूत् । यया पुत्रदायिनि सुनी द्रे भीलि ताक्ष्या जनन्या अह अन्धत्वेन जात इत्यर्थ । मूर्खस्य स्वत अविवेकिन परैर्बोधित अश्रोतुश्च सूनो दुर्योधनस्य मुख अनवेक्ष्य अधुना अधिका निरवाधिं मुद आनन्द दधामि धारयामि । तत्ताट्टक् दु खात् । आन्ध्यादषि डु खायते पुत्रस्य मौर्ख्यमित्यर्थ । अत्र किमुत्तरवाक्यार्थेन पुत्रवात्सल्यसमर्थनाद्वाक्या र्थहेतुक काव्यलिङ्गम् । उत आन्ध्यस्य दोषस्यैव सतोषजनकत्वेन गुणत्ववर्णनाल्लेशालकार । इत्युभयत्र साधकसाम्यादेकत्र बाधकाभावाच्च द्वयो सदेहसकर । पुष्पिताग्रा ॥ ४० ॥

 पुत्रमौर्ख्य विशदयति-स्वयमिति । अय सुत दुर्योधन स्वय आत्मनापि न विबुध्यते । शोभना कार्याकार्यविवेचिका मति आगामिगोचरबुद्धि यस्य तस्य जनस्य भीष्मविदुरादे वाचमपि न शृणोति । नानुतिष्ठति इत्यर्थ । अत हे गुणगणवारिनिधे श्रीकृष्ण, कुरुकुलस्य कुशलमेवाङ्रर तस्याभिवृध्धै । त्वमेव गति । नान्य इत्यर्थ । तथा च त्वमेव नयभयाभ्यामिदानीं संधिं धट- येति भाव । वृत्त पूर्ववत् ॥ ४१ ॥