पृष्ठम्:चम्पूभारतम्.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३०
चम्पूभारते


वसतोऽस्य निशैव सा [१]समाप्ता
 वसुदेवात्मभुव कथा न तास्ता ॥ २८ ॥

 [२]अथ वि[३]रताया निशीथिन्यामिव पृथाकथाया दीनद्युतिषु तारकाकलापेष्विव प्रदीपेषु विजृ[४]म्भितेषु शकुन्तिभिरिव वन्दिभि कलकलेषु विकसितेषु नलिनेष्विव नयनेषु [५]चञ्चरीकेष्विव पौरजनेषु उत्पलादिव राजमन्दिरान्महोत्पल प्रतीव विदुरमन्दिरमागतेषु विरोचन इव कमललोचन प्राचीनगिर्यङ्कादिव पर्यङ्कादुत्तस्थौ

समाप्य सध्यौपयिक स कृत्य समापयिष्यन्नथ शार्ङ्गधन्वा ।
अलकृताङ्गो विदुरस्य हस्तमालम्ब्य मन्द निरगान्निकेतात् ॥ २९ ॥
 


विधं कर्म सध्यावन्दनादिक आधाय कृत्वा पितृष्वसु कुन्या सकाशे सनिधौ वसत वर्तमानस्य अस्य वसुदेवात्मभुव कृष्णस्य सा निशा प्रवेशरात्रिरेव समाप्ता विरताभूत् । तास्त कथास्तु त्रिदशकवाषिय न समाप्ता अभूवन् । तयोरिति शेष । कृष्णकुन्त्योरित्यर्थ । चिरादृष्टयोरिष्टजनयो स प्रेमसलाप स्वर्गादप्यतिशेत इति भाव । औपच्छन्दसिकम् ॥ २८ ॥

 अथेति । अय निशीथिन्या रात्राविव पृथाकथाया कुन्तीसलापे विरताया समाप्ताया सत्याम् । द्वयोरपि समाप्तयो सत्योरित्यथ । एवमग्रेऽपि । ‘पृथासुत क्थायाम्’ इति पाठे पाण्डवसबन्धिकथायामित्यर्थ ।कृष्णकथ्यमानायामिति शेष । तारकाणा नक्षत्राणा क्लापेषु समूहेष्विव प्रदीपेषु दीपेषु दीना म्लाना धुति शोभा येषा तथोक्तेषु सत्सु । शकुन्तिभि पक्षिभिरिव बन्दिभि स्तुतिपाठकै कलकलेषु कोलाहलरवेषु विजृम्भितेषु प्रकटितेषु सत्सु । नलिनेषु पझेष्विव नयनेषु लोकलोचनेषु विकसितेषु सत्सु । चञ्चरीकेषु भृङ्गेष्विव पौरेषु जनेषु । उत्पलात् कुवल यादिव राजमन्दिरात् राज्ञ धृतराष्ट्रस्य मन्दिरात् महोत्पल कमल प्रतीव विदुरस्य मन्दिर प्रति आगतेषु सत्सु विरोचन सूर्य इव कमललोचन श्रीकृष्ण प्राचीनगिरे उदयशैलस्य अङ्कात् तटादिव पर्यङ्कात् शयनात् उत्तस्थौ उत्थितवान् । अत्र पृयाकथानिशीथिनीद्विकादीना प्रकृतानामेव विरत्यादिना घर्मेणौपम्यस्य गम्यत्वाकेवलप्रकृतगोचराणा तुल्ययोगिताना ससृष्टि ॥

 समाप्येति । अथ उत्थानानन्तर अलकृतानि निद्रावसरपर्यस्तवस्त्रभूषणादीना यथापूर्वमवस्थापनेन विभूषितानि अङ्गानि यस्य तथोक्त स शाङर्गधन्वा


  1. ‘समाप्नोत्' इति पाठ
  2. ’अथ’ इत्यादि ‘निकेतात्’ इत्य व कचिन्नास्ति
  3. ‘विगतायां रचयामिव पृथासुतकथायाम्’ इति पाठ
  4. ‘जृम्भितेषु’ इति पाठ
  5. ‘उत्पळादिव महोत्पळ राजनगराद्विदुरमन्दिरमागतेषु चञ्चरीकेष्विव सारिकेषु विरोचन इव कमलविलोचन प्राचीनगिरेरिव पयङात् इति पाठ