पृष्ठम्:चम्पूभारतम्.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२५
अष्टम स्तबक ।


पाण्डो सुताय वसुधा प्रविभज्य दित्सो
 प्रज्ञादृशो रहसि सान्त्वपथोपदिष्टम् ।
दुर्योधनस्तु वचन न चकार कर्णे
 कर्णे स्वमेव वचन मधुर चकार ॥ १४ ॥

 तदनु दिने दिने समुपचीयमाननानाविधनरपतिकुलचतुरङ्गबलकलकलानप्यभिभवद्भि कङ्ककाकसालावृक[१]जम्बुकरटितै कटूकृतनिकटयो कुरुविराटपुटभेदनयो [२]कतिपयदिनैरेव पञ्च खलु वीरा कौ[३]रवसाम्राज्यलक्ष्मीमभिवीक्ष्य स्थातुमवशिष्येरन्निति किव[४]दन्या क्षितिपति क्षीणधैर्यो दीनाक्षरे[५]णसहोदरसमक्ष स[६]रसीरुहाक्षमेवमाचचक्षे ।


कुर्वन्नपि सन् वातैर्विनापि वायुभिर्विनापि भृश अकम्पत कम्पितवान् । अत्र पुत्रविपत्तिभयकृतस्य धृतराष्ट्रकम्पस्य तत्सूचकोत्पातिकध्वजकम्पस्य च द्वयो प्रकृतत्वात्केवलप्रकृतास्पद श्लेषालकार । तद्वहिरवस्थानशीतमारुतधूननरूपकारणाभावेऽपि कम्पनरूपकार्योदयवर्णनाद्विभावनालकारश्च द्वयोरभिन्नपदबोध्यत्वादेकवाचकानुप्रवेशसकर ॥ १३ ॥

 पाण्डोरिति । पाण्डो सुताय धमराजाय वसुधा भूमिं प्रविभज्य अर्धाश विभाग कृत्वा दातुमिच्छो दित्सो प्रज्ञादृश अन्वस्य धृतराष्ट्रस्य सबन्धि रहसि सान्खपथेन साममार्गेण उपविष्ट बोधित वचन तु दुर्योधन कर्णे श्रोत्रे राधेये च न चकार नाङ्गीकृतवान् । न श्रावितवाक्ष्चेत्यर्थ । कितु स्व स्वीय मधुर वचनमेव कर्णे चकार । धृतराष्ट्रोक्त दूरीकृत्य कर्णेन दुर्मन्त्रिणा सह दुरालोचन कृतवानित्यर्थ । ‘परेतकल्पा हि गतायुषो नरा हित न गृहन्ति सुहृद्भिरीरितम् इत्य- भियुक्ता इति भाव ॥ १४ ॥

 तन्विति ।तदक्षु दिने दिने समुपचीयमानानाम्। आगत्य सखीभवतामित्यर्थ । नानाविधाना क्षत्रियम्लेच्छकिरातादिजातीना नरपतीना राज्ञा कुलस्य बृन्दस्य यानि चतुरङ्गाणि बलानि करितुरगरथिक्पदातिरूपाणि तेषा कलकलान् कोलाहल- रवानपि अभिभवद्धि आच्छादयद्भि कङ्काना गृध्राणा काकाना सालावृकाणा शुना जम्बुकाना क्षृगालाना रटितै दुर्घोर्षे । ‘सालावृका कपित्र्कोष्टुक्ष्वान' इत्यमर । कुरुपुटभेदने हास्तिनपुरे विराटपुटभेदने मत्स्यपुरे च द्वयो कटुकृता कर्णकठोरीभूता निकटा समीपदेशा ययोस्तथोक्तयो सतो । कतिपयै खल्पसख्यै-


  1. ‘जम्बूककदम्बकरटितै ' इति पाठ
  2. ‘कतिपयै ’ इति पाठ
  3. ‘पौरव' इति पाङ ,
  4. ‘किंवदया प्रवहत्य सस्यम्’ इति पाठ
  5. क्षीनाक्षर ’ इति पाठ
  6. ‘सरोरुहाक्षमेव व्याचचक्षे’ इति पाठ