तत्र चिरदृष्टस्य कु[१]रुकुजरस्य कुजरकुमारकोमलचक्रमविलासस्य |
तत्रेति । तत्र द्वारकाया कुजरकुमारस्य कारिफलभस्येव कोमल सुकुभार चक्रमविलास गमनविलास यस्य तथोक्तस्य चिरात् दृष्टस्य अतएव तस्य कुरुकुजरस्य अर्जुनस्य विलोकनाय । त विलोकितुमित्यर्थ । जना वीथीषु सघीबभूवु ॥
हेतुमिति । सुभद्राया हरणे हेतु तस्य अर्जुनस्य इमा तदीया यतित्वस्य शुद्धि नैर्मल्यम् । विपरीतलक्षणया कपटयतित्वमित्यर्थ । हृदि मनसि कुर्वतीना आलोचयन्तीना अतएव गवाक्षाणा मागै रन्ध्रमार्गै कृत वीक्षण अजुनदर्शन याभिस्तासा स्त्रीणा द्वारकाङ्गनाना मुखस्यैव इन्दो चन्द्रस्य स्मितमेव चन्द्रिका अभूत् । अयमेव स कपटसन्यासीसुभद्रामपहृतवान् इति स्मेरानना बभूवुरित्यर्थ । अत्रार्जुनकपटसन्यासचिन्तनतदवलोकनयो विशेषणगत्या हसनहेतुत्वादनेकप- दार्थहेतुककाव्यलिङ्गस्य परम्परितरूपकेण सहैकवाचकानुप्रवेशसकर ॥ ६ ॥
दौवारिकैरिति । तत्र तदानी दौवारिकै द्वारपालै दत्तमार्ग । अन्त प्रविष्ट इत्यर्थ । सोऽर्जुन निकेतस्य शयनगृहस्य मध्ये निद्रायमाणस्य स्वपत । शौरे कृष्णस्य सबन्वि तस्मात् कृष्णचरणात् स्यन्दिन्या प्रवहन्या सिन्धो गझया च्युतस्य गलितस्य कूर्मस्येव शोभा यस्य तथोक्त तमिव स्थितमित्युत्प्रेक्षा । चरणस्य उपधान उपबर्ह वर्तुलमुपायत् तत्समीप प्राप्तवान् ॥
यस्येति । युधि युद्धे साह्य सहयता अर्थी याचिव्यमाण । ‘अकेनोभविष्यदाधमर्णयो ’ इति कृद्योगे षष्ठीप्रतिषेध । अतएव प्रथम अर्जुनात्पूर्वमेव समेत्य आगत्य यस्य शौरे' मौले शिरस सविधे समीपे अधिमौलिसविधम् । विभक्त्यथऽव्ययीभाव । तिष्ठन् बर्तमान कुरूद्वह्रस्य धृतराष्ट्रस्य सुत दुर्योधन निजे मनसि
{{rule}]