पृष्ठम्:चम्पूभारतम्.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२१
अष्टम स्तबक ।


अथ भा[१]गिनेयेषु वत्सलतया सत्यसगरस्तथेति प्रतिश्रुत्य ।
 भद्राय तव मा विद्धि निद्रामुचमिति ब्रुवन् ।
 मद्राधिपो ययौ पार्थात्स द्राग्दुर्योधनान्तिकम् ॥ ४ ॥
[२]तदनन्तरम् ।
साह्याय युद्धे सरसीरुहाक्ष वरीतुका[३]मस्य बलारिसूनु ।
अजातशत्रोरवतसयन्गा तुङ्गध्वजा द्वारवतीमयासीत् ॥ ५ ॥


जुनयुद्धसमये भानुसुतस्य कर्णस्य हृदय मन वक्षश्च वितक्षन् छिदन सन् अन्वर्थता शल्य इति साथनामक्त्व आचर कुरुष्व । आत्मन इति शेष । चरते प्रार्थनाया लोट्। ‘वा पुसि शल्य शङ्कुर्ना इत्यायुधविशेषपयायेष्वमर । इत्युक्तप्रकारेण उवाच । प्रतिज्ञातङयाधनसाह्यस्य शल्यस्य प्रतिभङ्गभयेन । तावन्मात्र तमयाचतेत्यर्थ । महत, मात्मविपत्तावपि परे भङ्गासरक्षणीया एवेति भाव । यतु ‘मा नास्ति तुला तवार्जुनेन साम्य यस्य' इति व्युत्पत्तिसिद्धमन्वर्थत आचरेत्यन्वर्थच मातुलसज्ञाया एवाह नृसिद्द , तन्न । आयुधसाध्यतक्षणबोधकस्य वितक्षन्निति पदस्य स्वारस्यभङ्गापत्ते । परतु मातुला इतीति तन्त्रेण च्छेदमाश्रित्य हे कर्ण, तव अर्जुनेन तुला साम्रा मा नास्ति इत्युक्तप्रकारया आक्षेपवाचेति योजयितु शक्यमिति प्राहु ॥ ३ ॥

 अथेत्याद्युत्तरेणैकवाक्यम्

 भद्रायेति । अथ युधिष्ठिरप्रार्थनानन्तर सत्य सगर प्रतिज्ञा यस्य तथो- क्तोऽपीत्यपिरप्रक्तोऽपि ‘कमपराधलव मयि पश्यसि’ इत्यादाविव योज्य । मद्राधिप शल्य भगिन्या अपत्येषु भागिनेयेषु धर्मराजादिषु वत्सलतया प्रेम्णा तया सूर्यसुतस्य हृदयमाक्षेपवाचा तक्षिष्यामीति अभ्युपगम्य अङ्गीकृत्य । ‘प्रतिमृत्य’ इति पाठेऽप्युक्त एवार्थं । हे पार्थ, तव भद्राय मा निद्रा सुचतीति तथोक प्रवण विद्धि जानीहि इति ब्रुवन्' सन् पार्थात् धर्मराजा दुर्योधनस्य अन्तिक समीप प्रति द्राकू सत्वर ययौ गतवान् लात। लाटानुप्रास ॥ ४ ॥

 तदनन्तरमित्युत्तरेणान्वय ॥

 साझ्धायेति । तदनन्तर शल्यगमनानन्तर बलारे इन्द्रस्य सूतु अर्जुन सरसीरुहाक्ष श्रीकृष्ण युद्धं सात्याय परीतु कामो यस्य तस्य अजातशत्रो धर्मराजस्य गा वाच उक्तार्थिका अवतसयन् शिरसि कुर्वन् सन् तुङ्गानि उन्नतानि वजनि यस्या ता द्वारवतीं द्वारकानगर प्रति अयासीत् प्राप । शृते कर्तरि लुड्। ‘वरीतुकामो बलवैरिसूनु ’ इत्यर्जुनविशेषणतया पाठान्तरम् ॥ ५ ॥


  1. ‘मागिनेय' इति पाठ
  2. ‘तत ’इति पाठ
  3. ‘कामो बलवैरिस्तु ’ इति पाठ ,