पृष्ठम्:चम्पूभारतम्.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१८
चम्पूभारते


 अन्येद्युरात्मजमुखादभीषा [१]याथार्थ्यमवगम्य चकितच[२]कित कुटुम्बेन सह सचिवान्पुरस्कृत्य सभामागतो विराटो नामान्तरसनिधानादिव हायनमेकमनुपसर्पद्भि स्वै स्वैर्वेषै प्रकृतिमापन्नेन सोंदर्यजनेन समुपास्यमानस्य युधिष्ठिरस्य चरणनलिनयो पलीतभावुकेन मौलिना मरालयुवकेलिमुल्ललयाचकार ॥

तदा नुनोद स्मितपाण्डुरिम्णा तप सुतोsक्षक्षतिहेतुमुग्रम्।
महेन्द्रसुनोर्द्यशि शोणिमान मात्स्यस्य चित्तेsपि च नीलिमानम् ॥ ७१ ॥


 अन्येद्युरिति। अन्येद्यु परस्मिन् दिवसे आत्मजस्य मुखात् वचनात् अमीषा कङ्कदिसज्ञाना पाण्डवाना यातार्थ्य तत्त्व पाण्डवत्वयुधिष्ठिरत्वादिक अवगम्य ज्ञात्वा चकितचकित सेवापचारादिभि भीतभीत । वीप्साया द्विर्भाव। कुटुम्बेन कलत्रपुत्रादिना सह सचिना मन्त्रिण पुस्कृत्य सभा प्रत्यागत विराट नामान्तराणा कङ्कबललाधन्यसताना सनिधानात् सागत्यादिवेत्युत्प्रेक्षा। एक हायन सवत्सर अनुपसर्पद्भि समीपमागच्छद्भि स्वै स्वे प्रत्येक स्वीये वेषै रूपै प्रकृति स्वभाव आपन्नेन प्राप्तवता सोदर्यजनेन अनुजजनेन। भीमादिभिरिति यावत्। समुपास्यमानस्य सेव्यमानस्य युधिष्ठिरस्य। चरणे एव नलिने कमले तयो पलितभावुकेन धवलीभूतेन शिरोस्हेण। 'आढ्यसुभग-' इत्यादिना सशि खित्वात् 'अरूद्विषत्-' इत्यादिना मुम्। मोलिना शिरसा। मराल्यून तरुणहसस्य केलिं लीला उल्ळलयाचकार प्रकाश यामास। प्रणनामेत्यर्थ। अत्र अन्यलीलाया अन्यत्रासभवेन तत्सध्शलीलाक्षे पान्निदर्शनालकार। चरणनलिनयोरिति रूपकीज्जीवित इति द्वयोरङ्गाङ्गिभावेन सकर। स चोत्प्रेक्षया ससृष्ट॥

 तदेति। तदा विराटप्रणामसमये तपस यमस्य सुत विर्मराज स्मितस्य पाण्डुरिम्णा धावल्येन हेतुना अक्षक्षति पाशकप्रहारव्रण एव हेतुर्यस्य त उग्र भयकर महेन्द्रसूनो अर्जुनस्य धशि नेत्रे शोणिमान विराटे क्रोधेनारुण्य नुनोद निरस्तवान्। किच अक्षक्षतिहेतु निजकृतपाशकप्रहारजन्य उग्र इतिकर्तव्यतामौ ढ्येन भयकर मात्स्यस्य विराटस्य चित्ते नीलिमान भयान्वत्वरूप मालिन्य नुनोद। अत्राजुनविराटाभ्या वर्मराजस्मितनैर्मल्येन तदन्त प्रसादानुमानादनुमानालकार। वमराज स्मितधाव ल्यव्याप्त्या अर्जुनलोचनारुण्यविराटमानसमालिन्यत्यागपूर्वक वैशद्यत्राप्तिरूपतद्गुणालकारद्वयेनाङ्गाङ्गिभावसकीर्णेन प्रतीयत इत्यलकारेणालकारध्वनि। एवममर्षत्यागशान्त्योरर्जुनविराटगतयोरसलक्ष्यत्र्कमव्यङ्गययोरङ्गाङ्गिसावेन सकरश्च। अस्य चोक्तव्यङ्गयानुमानालकारसापेक्षत्वात् द्वयो सलक्ष्यासलक्ष्यत्र्कमव्यङ्ग्ययोरङ्गाङ्गिमावेन सकर इत्यल प्रपन्चेन प्रपञ्चेन ॥ ७१ ॥


  1. 'याथात्म्यस्' इति पाठ
  2. 'चकितम्' इति पाठ ३ 'प्रत्यासन्नेन' इति पाठ