इति प्रमोदचञ्चलेन पाणिना परामृश्य चरमाङ्ग पुन पुनरनुयुञ्जानाय ताताय सौदे [१]ष्णेयोऽपि त्रपाप्रवाहाभिमुखमवस्थातुमपारयन्निव वि[२]वलितकधरो गिरमेव विज्ञापयामास ।
इतीति । इति उक्तप्रकारेण प्रमोदेन चञ्चलेन क्म्पमानेन पाणिना चरमाङ्ग पृष्ठभाग पुन पुन परामृश्य पुन पुनरनुयुजानाय पृच्छते ताताय पित्रे विराटाय। सुदेष्णाया अपारयन् सौदेणेय उत्तरोऽपि त्रपा लज्जैव प्रवाह तस्याभिमुख अव स्थातु अपारयन्' अशक्रुवन्निवेत्युप्रेक्षा । विवलिता व्यावतिता कधरा ग्रीया येन तथोक्त सन् एव वक्ष्यमाणप्रकारेण गिर वाच विज्ञापयामास विज्ञापितवान् ॥
रोद इति । हे तात , मया रोदसो दिवि भुवि च प्रसारि व्यामुवत् । ‘द्यावाभूमी च रोदसी’ इत्यमर । ध्वनित सिहनाद रोदन च द्विषा धुरि अग्रे चक्रे कृतम् । करोते कर्मणि लिट् । उत्साहाद्भयाच्चेति भाव । मे मम वेगे पराक्रमे पलायने च य सनाह उद्योग यावानस्ति तावान् वेगसनाह तत्र शक्रूणामग्रे प्रदशित । मयेति योज्यम् ॥ ६७ ॥
अहमिति । किच तस्मिन् रणे अहमेक एव । नान्य कश्चिदित्यर्थ । अपरे अन्यै अननुष्ठिता अकृताम् । अनुचितत्वात् स्वप्नेऽप्यकरणीया चेत्यथ । रथित्वे सारथित्वे पतित्वे चेत्यर्थ । पुरनिर्गमनप्रवेशयो युद्धे पलायनवस्त्राहरणयो श्रेति विवेक । कर्तृता अधिकार रचयामि स्म अकरवम् । रथी सारथि पाद चारी चाभवमित्यर्थ । अत्र वाच्यकक्ष्याया अनेफ्रसाध्ये कमत्रये एकस्य प्रकृत्त्या पराननुष्ठित्वसमर्थनात्काव्यलिङ्गभेद ॥ ६८ ॥
देव, कि बहुना । उक्तेनेत्युत्तरेणान्वय ॥
अपार्थमिति । हे देव खामिन्, बहुनोक्तेन कि प्रयोजनम् । न किमपी त्यर्थ । यत् यस्मात् आहवे युद्धे अरातिषु शत्रुषु विषये मे मम सबन्धि कर्म