नभसि प्रविसारि देवदत्ते नरदत्तध्वनित ततो दधाने । |
|
अथ करतलद्वयमण्डपकृतताण्डवस्य गा[१]ण्डीवस्य विस्फारेण पाण्डवोऽयमिति निश्चित्य लीलानिस्तीर्ण[२]दुस्तरसधासिन्धुरय पुनरपि निर्बन्धुमागत इत्यधृष्यया निजेर्ष्यया रूक्षा विपक्षा पूर्वपक्षा सिद्धान्तमिव युद्धाय त पर्यवारयन् ।
स्तादृश शिर यस्य स देव शभुरपि य गाण्डीव श्लाघते किमुतान्य इत्यर्थापतिरूपेण वाक्यार्थन कौरवबलानादरसमथनाद्वाक्यार्थहेतुककाव्यलिङ्गाथापत्त्योरङ्गाङ्गिभावेन सकर । शादूलविक्रीडितम् ॥ ३४ ॥
नभसीति । तत देवदत्ते अर्जुनशङ्खे नभसि आकाशे प्रकर्षेण विसारि व्यापृत नरेण अर्जुनेन दत्त आध्मानेन जनित ध्वनितम् । ध्वनतेर्भावे क्त । दधने सति द्विरदा गजा मुमुहु सभ्रान्ता बभूवु , अश्वा मुमूछु मूर्च्छो गता , रयिन रथिका चुक्षुभिरे क्षुभ्यन्ति स्म, भटाश्च बिभ्यु तत्रसु । देवदत्तघोषेण चतुरङ्गमपि कारवबलमुन्मादितमभूदित्यर्थ । अत्र भोहाद्यनेकक्रियायौगपद्यात्ममुच्चयालकार । औपच्छन्दसिकम् ॥ ३५ ॥
पर्यायेणेति । अथ प्रकोष्ठयो हस्तमूलयो पातिता आकर्षणे प्रवेशिता ज्या मौर्वो यस्य स अस्य अर्जुनस्य गाण्डीव चाप गन्धवै चित्रसेनादिभि सह युद्धमारभ्य पर्यायेण क्रमेण कृत मौन नाम व्रत समापयत् त्यजति स्म । अर्जुनो गाण्डीव टकारितवानित्यर्थ । गन्धर्वैर्युद्धप्रभृति कुत्रापि युद्धाभावादिति भाव । अत्र गाण्डीवगुणटकारस्य मौनव्रतसमाप्तिरूपेण कथनात्पर्यायोक्तिरलकार-- 'पर्यायोक्त तु गम्यस्य वचोभङ्गथन्तरेण यत्' इति लक्षणात् ॥ ३६ ॥
अथेति । अथ करतलयो द्वयमेव मण्डप रङ्ग तस्मिन् कृत ताण्डव गुणाकर्षणाविमोचनव्यापार यस्य तस्य । अर्जुनस्य सव्यसाचित्वादिति भाव । गाण्डीवस्य विस्फारेण गुणटकारेण । ‘विष्फारो धनुष स्वान ' इत्यमर । अय पुसेवर्ती पाण्डवोऽजुन इति निश्चित्य अनुमीय अय अर्जुन लीलया अनायासेन निस्तीर्ण अतिक्रान्त दुस्तर तरितुमशक्य सधा अज्ञातवासप्रतिज्ञैव सिन्धु समुद्र येन तथोक्त सन् पुनरपि निर्बन्धु निरोङद्धम् । राज्यायेति शेष । आगत इत्युक्तप्रकारया आधृष्यया दुर्निवारया निजया ईर्ष्थया मानसविकारेण गुणेष्वपि दोषारोपात्मकेन रूक्षा कलुषा विपक्षा शत्रव त अर्जुन पूर्वयक्षाः