पृष्ठम्:चम्पूभारतम्.pdf/२८७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८५
षष्ठ स्तबक ।


मानिनामचरमोऽथ सुशर्मा मध्यवार्तिनमनीकपयोधे ।
समुखो झटिति बन्धमनैषीत्स ज्यया रिपुमपत्रपया च ।। १०२ ॥
भूपे पराभवपदे युघि धर्मसूनो-
धृवांल्लेकम्पकलेकासवतसयन्स ।
मभन्बलानि रिपवे मरुत कुमारो
मात्स्य विमुच्य विततार द्शा तदीयाम् ।। १०३ ।।
विराटसैन्येषु मिषत्सु युद्धे त्रिगर्तनेतुर्हढबन्धनाय ।
कोदण्डयुक्तो गुण एव वत्र कर्ता च जज्ञे करण च जज्ञे ।१५४।।


मानिनामिति । अथ विराटसमीपगमनानन्तर मानिना प्रशस्तमानाना अचरम प्रथम स सुशर्मा समुख विराटाभिमुख सन् अनीकस्य सैन्यस्यैव पयोधे मध्यवर्तिन रिपु विराट ज्यया धनुर्गुणेन झटिति सखर बन्ध अनैषीत् प्रापयामास । झटिति तत्क्षणमेव अपत्रपया लज्जया च बन्ध अनैषीत अतिलज्जि त चक्रे । मानभङ्गादिति भाव । नयतेर्द्धिकर्मकात् कर्तरि लट् । अत्र धनुर्गुण- बन्धनव्यापरेणैवैकेन लज्जबन्धनस्याप्यन्यस्योत्पत्तिवर्णनाद्विशेषालकारभेद । खागता ॥ १०२ ॥

भूप इति । भूपे विराटे युधि युद्धे पराभवस्य पदे स्थाने । अवमानिते सतीति यावत् धर्मसूनो युधिष्ठिरस्य धैरेव वी तस्या कम्प आज्ञासूचक एव कलिका कोरक ता अवतसयन् शिरोभूषणीकुर्वम् । तदाज्ञा शिरसा वहन्नित्यर्थं । अतएव स प्रसिद्ध मरुत वायो कुमार भीम बलानि शत्रुसैन्यानि मश्नन् भजयन् सन् मात्स्य विराट विमुल्य बन्धान्मोचयित्वा तस्य विराटस्येमा तदीया दशा बन्धनावस्था रिपवे सुशर्मणे विततार दत्तवान् । अत्र पुंवाछिकम्पे आरोप्यमाणाया कलिकाया अवतसीकरणोपयोगिखात् परिणामालकार । बन्धनकर्ते बन्धन मित्यनुपसघटनात्मकसमालकारेण समीणी ॥ १०३ ॥

विराटेति । युद्ध युधि विराटसैन्येषु मिषत्सु स्खयकर्तुमशक्यत्वातूष्णी पश्यत्सु सत्सु त्रिगर्तनेतु सुशर्मण दृढ बन्धनाय कोदण्डेन घापेन युक्त सहित कोदण्डे युक योजितश्च गुण भीम एव मायैवेति च कर्ता कारकश्च जज्ञे अभूत् । करण श्रेष्ठसाधन च जज्ञे । भीमो धनुर्गुणेन सुशर्माण बबन्धेत्यर्थं । अत्र कर ख्यातेनाभिहितत्वात् प्रथम, करणस्य अनभिहितत्वात् तत्र तृतीया चेति ध्येयम् । अत्रैकस्यैव तत्रापि गुणस्य कर्तुख करणख चाश्चर्यमिति भाव । अतएव विरो" धाभास । गुणशब्दश्छेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्यनुप्राणित इति तयोरङ्गाङ्गिभावेन सकर । ‘गुण प्रधाने रूपादौ मौर्यां सूदे वृकोदरे’ इति विश्व ॥ १०४ /