पृष्ठम्:चम्पूभारतम्.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७७
षष्ठ स्तबक ।


दुहान्तस्तदनुजा अपि तथैवेति काचिदिय किंवदन्ती कर्णात्कर्णमधिरोहति । एव चेदसशय सा चतुष्पथमण्ड[१]पस्तम्भसालभञ्जिकेव [२]सर्वजनकरपरामर्शभाजन पाञ्चाल[३]दुहिता । त[४]स्या पतिविडम्बका इति प्रवादभाजस्तेऽपि पुनरज्ञातवासिन परेतपतिपवमानपाकशासनाश्विना पारस्लैणेया । तेष्वपि द्वितीयेनैव बाहु[५]बलशालिना वधूद्रुहा निहस्त्रा भवितव्यम् । अहो सर्वत्र विशृङ्खलममीषा दौ शील्यम् ॥

तथाहि ।

देशे जरासधमुखैर्व्यरुन्धन्वनेऽपि किर्मीरहिडिम्बमुख्यै ।
गूढे निवासेऽपि च सूतपुतत्रै क नु स्थितास्ते कलह विनान्यै ॥ ८४ ॥


काचित् एका किवदन्ती जनवाद र्क्णात् एकस्य श्रोत्रात् कर्ण अन्यस्य श्रोत्र अधिरोहति प्राप्रोति । एव चेत् । उक्तवृत्तान्त स्याद्यदीत्यर्थ । सा कीचककामितकामिनी चतुष्पथे चतुर्भार्गमेलनदेशे यो मण्डप तस्य स्तम्भे सालभञ्जिका कृत्रिमपुत्रिकेव सर्वेषा जनाना करेण परामर्शनस्य स्पर्शनस्य भाजन पात्र पाञ्चालदुहिता द्रौपदी भवति असशयम् । तस्या कामिन्या पतिविडम्बका भर्तार इति प्रवादभाज ते पुन गन्धर्वास्तु अज्ञात बास एषामस्तीति अज्ञातवासिन परेतपते यमस्य पवमानस्य वायो पाकशासनस्य इन्द्रस्य अश्विनो आश्विनेययोश्च पञ्चाना परस्त्रिया कुन्त्या माद्याश्च पुत्रा पारस्त्रैणेया युधिष्ठिरभीमार्जुननकुलसहदेवा । कल्याण्यादित्वाङ्ढकि नडागम । अनुशतिकादित्वादुभयपदवृद्धि । भवन्ति असशयम् । तेष्वपि बाहुबलशालिना द्वितीयेन भीमेनैव वध्वै द्रुह्यन्तीति द्रुहा कीचकाना निहय्त्रा मारकेण भवितव्य असशयम्। अमीषा पाण्डवाना दौ शील्य दु स्वभाव सर्वत्र स्खदेशे परदेशे च विक्षृङ्खल निष्प्रतिबन्धकम् । अहो इत्याश्चर्ये ॥

 तथाहीत्युत्तरेणान्वय ॥

 देश इति । ते पाण्डवा देशे स्वस्थाने स्थिता सन्त जरासध मुख आदि येषा तै राजभि सह व्यरुन्धन् विरोध चळु । रुधे कर्तरि लड् । वने स्थिता सन्तोऽपि किर्मीहिडिम्बमुख्यै सह व्यरुन्धन् । किबहुना गूढे निवासे अज्ञातवासेऽपि च स्थिता सत सूतपुत्रै कीचकै सह व्यरुन्धन् । अत अन्यै सह कलह विना क च कुत्र वा स्थिता । न कुत्रापीत्यर्थ । अत्र सर्वत्र कलस्हभाव प्रति वाक्यार्थत्रयस्य हेतुत्वादनेकवाक्यार्थहेतुक काव्यळिङ्गम् ॥ ८४ ॥


  1. ‘मण्डपिका’ इति पाठ
  2. ‘सर्वकरावमश’ इति पाठ
  3. ‘मुता’ इति पाठ
  4. ‘तेऽपि पुनरशातवासिन परेतपतिपवमानपाकशासनाधिना पारलैणेयास्तस्या पतिविडम्बका’ इति पाठ
  5. ‘बर्’ इति नास्ति कचिद्