पृष्ठम्:चम्पूभारतम्.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७६
चम्पूभारते


तदनु विदितवार्तो धार्तराष्ट्रश्चरेभ्य
 शुभगुणचरितेभ्य सूतजाना शतस्य ।
वसतिमरिजनाना मत्स्यभूपालपुर्यो
 हृदयमुकुरलग्नैर्हेतुभिर्निश्चिकाय ॥ ८२ ॥
अन्येद्युरङ्गेश्वरसौ[१]बलाभ्यामास्थाय गोष्ठीमधिप कुरूणाम् ।
भी[२]ष्माग्रगान्बन्धुजनान्विलोक्य गम्भीरमेव गिरमाबभाषे ॥ ८३ ॥

भो भो , विदित कि भबतामि[३]दम् । स[४]प्रति मात्स्यपुरे कामपि कामिनी कामयमान कीचकोऽपि[५], निशि तस्या पतिभिरदृश्यै पञ्चाभर्गन्धर्वैरनुरहसि स्वसख्यापदा[६]भिधेयमनीयत । तस्यै पुनरपि


 तदन्विति । तदनु पाण्डवानामज्ञातवासप्रतिज्ञानिस्तरणानन्तर धार्तराष्ट्र दुर्यो वन शुभानि गुणा गूढचरणेङ्गितज्ञानादथ चरितानि यथार्थवक्तृवादीनि च येषा तेभ्य चरेभ्य चरेभ्य सूतजाना शतस्य सबन्धिनी विदिता ज्ञाता वार्ता वधवृत्तान्त येन तथोक्त सन् हृदय मन एव मुकुर दर्पण तस्मिन् लग्नै सक्त्रान्ते । निश्चितैरिति यावत् । हेतुभि वक्ष्यमाणै कीचककामनीयसौन्दय तन्मरणादिभि मत्स्यभूपालपुर्या विराटनगर्या अरिजनाना पाण्डवाना वसति निचास निश्चिकाय निश्चितवान् । चिनोते र्क्तरि लिट्। विभाषा चे’ इत्यभ्या सात् परस्य कुत्वम् । अत्र शुभगुणचरितेभ्य इति विशेषणस्य तात्कालिकतदुक्तीना याथार्याभिप्रायगर्भत्वात्परिकरस्य हेतुभि पाण्डवस्थित्यनुमानस्य च द्वयोरङ्गा ङ्गिभावेन सकर ॥ ८२ ॥

 अन्येद्युरिति । अन्येद्यु परस्मिन् दिने कुरूणामधिप दुर्योधन । अङ्गेश्वरसोबलाभ्या कर्णशकुनिभ्या सह गोष्टी आस्थानी आस्थाय प्राप्य भीष्म अग्रग आदिम येषा तान् बन्धुजनान् विलोक्य एव वक्ष्यमाणप्रकारेण गिर वाक्य गम्भीर उच्चै आबभाषे उक्तवान् । इन्द्रवज्रा ॥ ८३ ॥

 भो भो इति । भो भो हे बन्धुजना । ‘अथ सबोधनार्थका । स्यु प्याट्र पाडङ्ग हे है भो ’इत्यमर । इद वक्ष्यमाण पाण्डववृत्तान्त भवता विदित युष्माभि ज्ञात किमिति परिप्रश्ने । सप्रति मात्स्यपुरे कीचक विराटश्याल कामपि अज्ञातनाभगोत्रा कामिनी कामयमान सन् अदृश्यै दुर्ज्ञेयै तस्या कीचककामित कामिन्या पतिभि पञ्चभि गन्धर्वे रात्रौ अनुरहसि एकान्ते स्वसख्याया पञ्चखस्य पद वाचक पञ्चत्वशब्द तस्य अभिधेय वाच्यम् । मरणमिति यावत् । अनीयत प्रापित । नयते कर्मणि लड्। पुनरपि । हेतेऽपि कीचक इत्यर्थ । तस्यै कामिन्यै द्रुह्यन्त चितिपातनरूप द्रोह कुर्वन्त तस्य कीचकस्य अनुजा आपि तथैव । तत्पतिभि पञ्चतामनीयन्तेत्यर्थ । इति उक्तप्रकारा इय


  1. ‘सौबलिभ्याम्' इति पाठ
  2. ‘भीमादिमान्’ इति पाठ
  3. ‘अपीदम्’ इति पाठ
  4. ‘सप्रति खलु’ इति पाठ
  5. ‘अपि’ इति नास्ति क्कचित्
  6. ‘अभि धेयताम्’ इति पाठ