पृष्ठम्:चम्पूभारतम्.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७५
षष्ठ स्तबक ।


वध्वस्तदा मण्डलशो निविष्टा रुन्धद्भिराशा रुरुदुर्विलायै ।
महत्सु दु खेषु विजृ [१]म्भितेषु मालिन्युपालम्भनमस्पृशद्भि ॥ ७९ ॥
तस्मिन्दिने सनिधिमागता सा कृष्णा दृश केकयराजपुत्र्या ।
मषीशलाकार्पणया विनापि सन्देतरामश्रुकणैरकार्षीत् ॥ ८० ॥
 तावद्युधिष्ठिरमुखा अपि वातजात-
  व्याधूतकीचककुलाकुलकोटिभागम् ।
 निर्यत्प्रियानयनवारिझरीपरीत
  सकेतशैलमधिरुह्य निशश्वसुस्ते ॥ ८१ ॥


मण्डप विडम्बयति अनुकुर्वति मति शुचा दु खेन निरस्त मौलि उष्णीषादि शिरोभूषण यैस्तै निर्गलिता त्यक्ता वाच यैस्तै वाचयमै निष्पन्दा निश्चला तनुर्येषा तै निखिलैरपि पैौरै नृपते विराटस्य निलयस्य गृहस्य द्वार निबिडित सान्द्रित अभूत् । पौरा सर्वे नृपमाक्ष्वासयितुमाजग्मुरित्यर्थ ॥

 वध्य इति । तदा वध्व पौरस्त्रिय मण्डलश वलयाकारेण निविष्टा सत्य महत्सु दुर्भरेषु दु खेषु विगृम्भितेषु सत्स्वपि मालिन्या द्रौपधा उपालम्भन निन्दा अस्पृशद्धि । गन्धर्वभयादिति भाव । आशा रन्धद्भि दिगन्तव्यापिभि विलापै परिदेवनै उपलक्षिता ररुदु । अत्रोपालम्भनहेतो कीचकवधस्य सत्वेऽपि तदनुदयवर्णनाद्विशेषोक्ति ॥ ७९ ॥

 तस्मिन्निति । तस्मिन्दिने कीचकवधदिवसे सनिधिं प्रत्यागता सा कीचकघातयितृत्वेन प्रसिद्धा कृष्णा केकयराजपुत्र्या सुदेष्णाया दृश नेत्र मषीशलाकाया अञ्जनकाष्ठस्य अर्पणया विनापि विन्यसन विनैव अश्रुकणै बाष्पबिन्दुभि मन्देतरा अनल्पाम् । तत्पूर्णामिति यावत् । अकार्षीत् चक्रे । इयमेव मन्द्रातहणा मृत्युरिति तया बाष्पायितमित्यर्थ । अत्र अक्ष्रुकारण अञ्जनशलाकाविन्यसन विनापि तदुदयवर्णनाद्विभावनालकार ॥ ८० ॥

 तावदिति । तावत् तावता कालेन युधिष्ठिरो मुख आदिर्येषा ते पाण्डवा अपि वातजातेन भीमेनैव वायुसमूहेन व्याधूताना निहताना कम्पिताना च कीचकाना सूतजानामेव वेणुविशेषाणामिति पूर्ववच्छिलष्टरूपकम्। कुलेन बृन्देन आकुल सकुल कोटिभाग अग्रदेश यस्य त निर्यन्त्या प्रियानयनवारिणा द्रौपदीबाष्पेणैव झर्या प्रस्रवणेन परीत व्याप्त सकेत अज्ञातवाससवत्सरशपथमेव शैल अधिस्हा प्रतिज्ञा निस्तीर्य निशश्वसु निश्वसितवन्त । कृच्छ्रादुत्तीर्णा विश्रम्य दीर्घ निश्वसन्तीति प्रसिद्धम् । समस्तवस्तुसावयवरूपकम् । यत्त ‘सकेते नृत्तमण्डपे’ इति नृसिह , तदबोधात् विशेषणदूयासागत्यापत्ते ॥ ८१ ॥


  1. 'अपि जृम्भितेषु’ इति पाठ