पृष्ठम्:चम्पूभारतम्.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७२
चम्पूभारते


विलोक्य त भ्रातरमात्तशोका मृत्युद्विपस्येव पिधानपिण्डम् ।
ज्यायानिवामी विदधु” स्थली तामस्त्रेण गुल्फद्वयसीं निजेन ॥ ७५ ॥
  

 ततस्ते सोदरविपत्तिनिमित्तमियमेवेति रोषरूषितचेतसो निवेशितशवपिण्ड[१]भारस्य मूर्तैर्भी[२]मस्य मुष्टिभिरिव नारिकेलफलैरु[३]परुध्यमानपार्क्ष्वस्य चरमविभानस्य स्तम्भदारुणि सदानिता कौन्तेयसीमन्तिनीं तिमिरमुदिरसौदामिनीमि करदीपिकाभिर्दीयमानचङ्कमावकाशेन पथा पितृवनमुपनीय स्वकीयविवेकसपत्त्या सह म[४]हत्या चित्यामत्याक्षु ॥


किमित्याहित किमत्याहितमिति ब्रुवाणा सन्त तस्य सर्वेऽप्यवरजा अनुजा समेयु समागतवन्त ॥ ७४ ॥

 विलोक्येति । अमी कीचकानुजा मृत्योरेव द्विपस्य गजस्य पिधानपिण्ड तृणच्छन्नकेवलमिव स्थितमिति रूपकोज्जीवितोत्प्रेक्षा । त भ्रातर कीचक विलोक्य आत्तशोका सन्त ज्यायान् ज्येष्ठ कीचक इव ता स्थलीं रङ्गप्रदेश निजेन अस्त्रेण बाष्पेण शोणितेण च गुल्फद्वयसी गुल्फप्रमाणा विदथु । तत्प्रमाणबाष्पजला चक्रुरित्यर्थ । ‘प्रमाणे द्वयसज्दघ्रञ्मात्रच ' इति द्वयसचि 'टिङ्ढाणज्-' इत्यादिना डीप् । अत्र कीचकस्य तदनुजाना च रङ्गे गुल्फप्रमाणास्रसपादनेनौपम्यस्य गम्यत्तुल्ययोगिताभेद । बाष्पशोणितयोरस्त्रशब्दश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तयुज्जीवित इति द्वयोरङ्गाङ्गिभावेन सकर ॥ ७५ ॥

 तत इति । तत ते कीचकानुजा सोदरस्य कीचकस्य विपत्ते मरणस्य निमित्त कारण इय द्रौपधेव इत्युक्तप्रकारेण रोषेण रूषित कलुषीकृत चेत येषा तथोक्ता सन्त निवेशित निक्षिप्त शवपिण्ड कीचकमासग्रन्थिरेव भार यस्मिस्तस्य मूत देहबारिभि भीमस्य मुष्टिभि तत्प्रहरैरिव स्थितै नारिकेलफलै उपरुध्यमाना सगता पार्क्ष्वाक्ष्चत्वार यस्य तस्य चरमविमानस्य शबरथस्य स्तम्भदारुणि सदानिता बद्धा कौन्तेयसीमन्तिना द्रौपदी तिमिरस्यत्र मुदिरस्य मेघस्य सबन्विनीभि सौदामिनीभि तडिद्भि करदीपिकाभि दीयमान चङ्कमस्य गमनस्य अवकाश यस्मिन् तेन पथा मार्गेण पितृवन श्मशानम् । ‘श्मशान स्यात्पितृवनम्' इत्यमर । उपनीय प्रापय स्वकीयया विवेकसपत्त्या सह महत्या चित्या चिताया अत्याक्षु पातयामासु । ‘घनजीमूतमुदिरजलमुग्धूमयोनय ', ‘तडित्सौदामिनी विद्युत्’ इति च मेघविद्युत्पर्यायेष्वमर । अत्र द्रौपदीविवेकसपदो त्यागक्रियाया साहित्यवर्णनात्सहोक्तिरलकार ॥


  1. ‘भरस्य’ इति पाठ
  2. भीममुष्टिभि ’ इति पाठ
  3. ‘उपवध्यमानस्य' इति पाठ
  4. ‘महत्या’ इति नास्ति कश्चित्