पृष्ठम्:चम्पूभारतम्.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७१
षष्ठ स्तबक ।


 तस्मिन्हते निपतिते बकवैरिमुष्टया
  रद्रेण तेन समकम्पि चलत्पताकम् ।
 पार्थाच्चिरेण परिशीलितमुत्तराधै
  कन्याजनैरभिविडम्बयतेव नाटयम् ॥ ७३ ॥

 [१]दनु तत्र मण्डपे पिण्डतया कृत तस्य दस्योस्तरस तरसा विलोक्य प्रहर्षवत्या पार्षत्या श्लाघापूर्वमाम्रातभुज कुरुव्याघ्रो निर्गत्य यथापुरमविकृतमानसो महानसोदर प्रविश्य सुखेनाधिशिश्ये ॥

 निपात्य मालिन्यपि तत्र शत्रु
  चक्रन्द भीत्येव चळाग्रपाणि ।
 निशम्य तत्कि किमिति ब्रुवाणा
  सर्वेऽपि तस्यावरजा स[२]मेयु ॥ ७४ ॥


शेषोक्तेश्चित्तजचापादिशब्दश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तयनुप्राणितत्वात् तयोरङ्गाङ्गिभावेन सकर ॥ ७२ ॥

 तस्मिन्निति । बकवैरिण भीमस्य मुष्टया । तत्प्रहारेणेत्यर्थ । हते अतएव तस्मिन् निपतिते सति तेन प्रसिद्धेण रङ्गेण नर्तनमण्डपेन उत्तरा विराटपुत्री आद्य (?) येषा तै कन्याजनै पार्थात् अजुनात् चिरेण परिशीलित अभ्यस्त नाटय अभिविडम्बयता सर्वत अनुकुर्वतेवेत्युत्प्रेक्षा । चलन्ती पताका यस्मिन् तथा समम्पि कम्पितम् । कम्पतेर्भावे लुड् ॥ ७३ ॥

 तदन्विति । तदनु तत्र मण्डपे नर्तनशालाया पिण्डतया पिण्डाकारेण कृत भीमेन घटित दस्यो शत्रो तस्य कीचकस्य तरस मास बिछोक्य प्रहर्षवत्या सतोषवत्या पाषत्या द्रौपद्या तरसा वेगेन श्लाधापूर्वे यथा तथा आघातौ चुम्बितो भुजौ यस्य स । तयोरेव तदभीष्टदायकत्वादिति भाव । कुस्व्याघ्र कौरवश्रेष्ठ भीम निर्गत्य नर्तनमण्डपाद्वहिरागत्य पुरेव यथापुर कीचकवधात्पूर्वमिव अविकृत हषादनुद्रिक्त मानस यस्य तथोक्त सन् । कीचकववस्याकिचित्करत्वादिति भाव । महानसस्य पाकगृहस्य उदर मध्य सुखेन अधिशिश्ये शयितवान् शीड वर्तरि लिट् ।

 निपात्येति । मालिनी द्रौपद्यपि तत्र रङ्गे शत्रु कीचक निपात्य पातयित्वा । भीमेनेति शेष । भीत्येव । न वस्तुतो भयेनेत्यर्थ । चल अग्रपाणि हस्ताग्र यस्यास्तथोता सती चक्रन्द रुरोद । क्रन्दे कर्तरि लिट् । तत् द्रौपदीरोदन निशम्य


  1. ‘तदनु' इति नास्ति कचिव
  2. ‘समीयु ’ इति पाठ