पृष्ठम्:चम्पूभारतम्.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६९
षष्ठ स्तबक ।


सुराधिकत्वेऽपि पदे वितीर्णे मह्म तवास्त्येव हि कृत्यशेष ।
कुरुष्व मेरोरधिके कुचे मा सुधाधिक पायय चाधरोष्ठम् ॥ ६७ ॥
 इत्थ स सान्त्ववचनोदयमर्घमञ्च-
  मारोदुमानमितपूर्वतनो स भीम ।
 भुष्टयाहतिं निटिलसीभ्नि चकार शत्रो-
  रायुर्लिपि शिथिलयन्निव धातृदत्ताम् ॥ ६८ ॥
 गम्भीरचेता स तु[१] कीचकोऽपि
  गन्धर्वबुद्धया प्रतिहन्तुमेनम् ।
 सद्यो भवित्र्या शवताद्शाया
  साधारणीमेव बबन्ध मुष्टिम् ॥ ६९ ॥


तृणाय मत्वा तृणमिव अनादृत्य । ‘मन्यकर्मण्यनादरे’ इति चतुर्थी । मर्त्य मा एव रातिविघये सभोगार्थ यत् यस्मात् प्रतीक्षसे निरीक्षसे, तत् तस्मात् मे मदीय मर्त्यत्व मनुष्यभाव देवत्वादपि महत्तर अतिक्ष्लाघ्य त्वया अधुना कलृप्त कृतम् । हिरवधारणे । वाक्यर्थहेतुक काव्यलिङ्गम् ॥ ६६ ॥

 सुरेति । किच हे सुतनु, त्वया सुरेभ्य अधिक्त्व यस्मिन् तस्मिन् पदे स्थाने मह्य वितीर्णे दत्ते सत्यपि तव कृत्यस्य कार्यस्य शेष अस्त्येव । हिरवधारणे । स क इत्यतस्तमाह--कुरुष्वेति । मेरो सुराद्रे अधिके कुचे मा कुरुष्व । आलिङ्गस्वेत्यर्थ । सुधाया अमृतात् अधिकम् । माधुर्येणेति भाव । अधरोष्ठ पायय । पिबतेर्ण्यन्तात्कर्तरि लोट् । देवेभ्योऽधिकस्य तदधिकावासाहाराधिक्यावश्यकत्वादिति भाव । अत्रालिङ्गनाधरपानप्रार्थनावाक्यार्थीभ्या कृत्यशेषास्तित्वसमर्थनादनेकवा क्याथहेतुक काव्यलिङ्गम् ॥ ६७ ॥

 इत्थमिति । इत्थमुक्तप्रकारेण सान्त्ववचनाना प्रियवाक्याना उदयेन उच्चरणेन सहित यस्मिन् तत्तथा अर्घमञ्च शयनार्धभाग आरोढु आनमिता इषदावार्जिता पूर्वतनु ऊर्ध्वकाय येन तस्य शत्रो कीचकस्य धात्रा दत्ता लिखिता आयुषो लिपिं शिथिलयन् मार्जयन्निवेत्युत्प्रेक्षा । स भीम निटिलसीम्नि शत्रो फालदेशे मुष्टयाहति ताडन चकार ॥ ६८ ॥

 गम्भीरेति । अथ गम्भीर सुखदु रवयोरविकृत चेत यस्य स अतएव स कीचकोऽपि । तुशब्दो वाक्यालकारे । गन्धर्व ताडितवानेष मालिनीपतिर्गन्धर्व इति बुध्या निश्चयेन एन गन्धर्व भीम सद्य प्रतिहन्तु प्रतिहर्तु भवित्र्या भाविन्या शवतादशया शवत्वावस्थाया । अपीत्येवकारोऽप्यर्थ । साधारणी समानाम् । न त्विदानीमेका तदानीमन्यामित्यर्थ । मुष्टि बबन्ध बद्धवान् । सुष्टि बद्धा म्रियन्ते मर्त्या इति प्रसिद्धम् ॥ ६९ ॥


  1. ‘च' इति पाठ