पृष्ठम्:चम्पूभारतम्.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६८
चम्पूभारते


 क सालभञ्जिकेवासि [१]भालिनि स्तम्भपार्श्वगा ।
 इत्यसौ भीमतल्पान्तमाससाद शनै शनै ॥ ६४ ॥

ततस्त व[२]ललोऽपि स्त्रैणसमुचितेन कण्ठस्वरेण मृदुलमेव जगा ।

 वधूशतमनादृत्य मामपेक्ष्य य[३]दागत ।
 तत्त्वा बहिर्गतप्राण मन्यते मे मनोऽधुना ॥ ६५ ॥

एवमुक्तवते वृकोदराय कीचक पुनरपि वाच मृदुपदामुप [४]था विद [५]धे ॥

 गन्धर्वानपि दयितास्तृणाय मत्वा
  मामेव रतिविधये प्रतीक्षसे यत् ।
 देवत्वादपि सुतनु त्वयाधुना मे
  मर्त्यत्व जगति महत्तर हि[६] कृल्प्ततम् ॥ ६६ ॥


परम्परितरूपकद्वयस्य श्लेषभित्तिकाभेदाध्यवसितावलेपेनान्तर्वाह्ययो औपम्यगमकस्य तुल्ययोगिताभेदस्य मनोरथसपादनोत्प्रेक्षाया सिन्धौबन्धावित्येकव्यञ्जनावृत्तिरूपधृत्त्यनुप्रासस्य ध्वान्तेऽध्वान्ते इति व्यञ्जनयुग्मापृत्तिरूपच्छेकानुप्रासस्य च अर्थालकारशब्दालकाराणा सजातीयविजातीयाना ससृष्टि ॥

 केति । असौ कीचक हे मालिनि, त्व सालभञ्जिका स्तम्भे कृत्रिमपुत्रिकेव। 'स्यात्सालभञ्जिका स्तम्भे’ इत्यमर । स्तम्भस्य पार्श्वगा पाक्ष्वे वर्तमाना सती कासि कुत्र वर्तसे इति । उक्तप्रकार वदन् सन्निति शेष । भीमस्य तल्पान्त शरयाया समीप प्र्ति शनै शनै आससाद प्राप्तवान् । उत्प्रेक्षा ॥ ६४ ॥

 तत इति । तत शरयाया समीपप्राप्तयनन्तर वलल अज्ञातवासे वलल नाना भीमोऽपि स्त्रैणस्य स्त्रीभावस्य स्मुचितेन कण्ठस्वरेण उपलक्षित त् कीचाक प्रति मृदुल सुकुमार यथा तथा एव वक्ष्यमानप्रकारेण जगाद उवाच ॥

 वध्विति । हे कीचक, त्व मामपेक्ष्य कामयित्वा वबूशत भार्याशत अनाहत्व उपेक्ष्य यत् य्स्मात् आगतईऽसी। तत् तस्मात् मे मदीय मन त्वा अधुना बहिगता मरयेव स्क्ता प्राणा यस्य तथोक्त निष्कान्त्प्रायप्राण च मन्यते तर्कयति । अत्र वधूशतत्यागपूवक आगमनेन भिर्गतप्राणत्वानुमानादनुमानालकार ॥ ६५ ॥

 एवमिति । एव उक्तवते पृकोदराय भीमाय पुनरपि मृदूनि अकुटिलानि पदानि शब्दा यस्यास्ता वाच कीचक उप्धा उपायन विदधे चकार ॥

 गन्धर्वानिति । हे सुतनु शुभगात्रि, त्व दयितान् प्राणप्रियान् गन्धर्वानपि


  1. 'मानिनि इति पाठ
  2. 'बल्लवोऽपि इति पाठ
  3. 'यदागम ' इति पाठ
  4. 'उपायनम् इति पाठ
  5. 'आददे' इति पाठ
  6. ’प्रक्लृप्तम्’इति पाठ