पृष्ठम्:चम्पूभारतम्.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथम स्तबक ।


फलेग्रहय एवासन्प्रसूनात्प्राक्प्रुथावने ॥५२ ॥

 तदनु गुणगणैरभङ्गुरशुभताविकाससमये समयेप्रजाधिपोऽसौ प्रथम युधिष्ठिरे सुतेषु तेजस्विषु तेषु षञ्चसु । प्रभाकरे पज्ञ्चतपा इवोन्न्ते प्रपातयामास विलोचनद्वय[१]म्॥५३॥

तपस्विनीना स्तनपायिनस्ते दरक्कणत्कीचकदत्तकर्णा ।
वने दिनान्ते वसुधेन्द्रपुत्रा वल्केषु निद्रासुखमन्वभूवन् ॥५४॥

क्षुत्पीडया स्तनरसे कलह शिशूना
 कुन्ती तदा शमयितु कुचकुम्मयुम्मे ।
एक युधिध्ठिरधनजययोक्ष्च भाग-
 मेक समीरणसुतस्य च सविदभेजे॥५५॥


हय फलधारिण्य आसन् । फलानामग्रत पुष्प धृत्वा जायमानत्वादिति भाव 'स्याद्रज पुष्पमार्तवम्',स्यादवन्ध्य फलेग्रहि' इत्युमयत्राप्यमर । 'जन्मो त्सव'इत्यादिमि पञ्चक्ष्लोर्जलनिर्मलीभवनादिवस्तुना तेषा लोकोत्तरमाहात्म्यप्रतीतेर्वस्तुना वस्तुध्वनि॥५१॥

 तदन्विति।तदनु गुणगणैक्ष्चन्द्रताराबलादिमिरभङ्गुराया अक्षीणाया शुमयु ताया शुभयोगस्य विकाससमये वृद्धिजननकालामिन्ने समये लग्नविशेषे इत्युत्तरेणान्वय। 'घतो नीलघट इत्यादिवद्विधेयकोटावधिकावगाहिताया न पौनरु त्तयम्'इति साप्रदायिका। 'शुभयुस्तु शुभान्वित' इत्यमर ॥

 प्रजाधिप इति।असौ प्रजाधिप पाण्डुस्तेजस्विषु । तेषु पष्वसु स्लतेषु। तन्मध्य इत्यर्थ । उन्नते महति युधिष्ठिरे पञ्चतपा पञ्चाग्निमध्ये तपस्वी प्रमाकरे सूर्य इव। सूर्यस्याग्नीना पञ्चसरयापूरकत्वस्मरणादिति भाव्॥५३॥

 तपस्विनीनामिति।ते वसुधेन्द्रपुत्रा युधिष्ठिरादयो वने तपस्विनीना ऋषिपत्नीना स्तनपायिन स्तन्यरसं पिबन्त सन्तो दर ईषत्क्कणत्सु शब्दायमानेषु कीचकेषु वेणुविशेषेषु दत्तावासक्त्तो कर्णो येषा ते तथोक्त्तक्ष्च सन्त। 'वेणव कीचकास्ते स्युर्ये खनन्त्यनिलोध्दता'इत्यमर । निद्रासुखमन्वभूवन्ननुभूतवन्त । वने धात्रीस्तन्यतद्वनडोलानामसभवादिति भाव॥५४॥

 क्षुदिति। कुन्ती शिशूना क्षुत्पीडया बुभुक्षादु स्वेन हेतुना स्तनरसे विषये कलह शमयितु वारयितु तदा कुचौ कुम्भाविव तयोर्युम्मे एक कुचकुम्भ युधिष्ठिरधनजययोश्व भाग एक समीरणसुतस्य भीमस्य भाग सविभेजे विभागमकरोत् ।


  1. 'विकासमये' इति पाठ