पृष्ठम्:चम्पूभारतम्.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६३
षष्ठ स्तबक ।

 तथाप्यौदास्यमेतस्मिन्न[१]नौपयिकमेव मे ।
 क्षोदीयानपि बध्यो हि कुलस्त्रीधुड् महीयसाम् ॥ ५४ ॥
 अये तन्वि कि बहुना ।
तस्यासृजा यावकिताडिध्र[२]मस्थ्ना चूर्णेन कर्पूरमयाङ्गरागाम् ।
[३]कीर्तिमष्याप्यभिलिप्तनेत्रीमलकरिष्ये मम वीरलक्ष्मीम् ॥ ५५ ॥
वीरश्रिय शिल्पमिद मयोक्त यथार्थभावादनुभूय सद्य ।
सैरन्ध्रिकाचारविनोदनेऽपि तवानुसारेच्छुमवेहि भा त्वम् ॥ ५६ ॥


विनैव गदा बाहुयुद्धमात्रेण इन्द्रादीना पलायनवस्तुना का गणना कीचकस्येत्य र्थान्तरापत्त्यात्मार्थापत्त्यलकारप्रतीते वस्तुनालकारध्वनि । उपेन्द्रवज्ञ्रा ॥५३॥

 ननु तर्हि मिहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विप सर्वं कृच्छूगतोऽपि वाञ्छति जन सत्त्वानुरूप फलम्’ इति न्यायमेवाङ्गीकरोषि । नेत्याह- तथापीति । तथापि । कीचकवधस्य लज्जाकरत्वेऽपीत्यर्थ । एतस्मिन् कीचक सूदने विषये औदास्य उपेक्षा मे मम अनौपयिक अयुक्तमेव । हि यस्मात्कारणात् । क्षोदीयान् अतिक्षुद्रोऽपि कुलस्त्रीभ्यो दुह्यतीति कुलस्त्रीध्रुक् महीयसा महात्मनाम् । बलशालिनामिति यावत् । वध्य हन्तव्य दारापहर्तुराततायित्वेन तद्वधस्य कर णीयत्वेन च स्मरणादिति भाव । तस्मादौदास्यमनौपयिकमेवेति सबन्ध । सामान्येन विशेषसमर्थनरुपोऽर्थान्तरन्यास । यत्तु ‘तथापि यद्यपीत्यर्थ । एत स्मिन् कीचके मे अतिबलशालिन अनपायिक अपायप्रद न भवत्येव, तथापि वध्य एवेत्यर्थान्तरन्यासेनाह--तथाहि । महीयसा अभिमानित्वेन श्रेष्ठाना क्षो दीयान् वरिष्ठोऽपि बलवानपीत्यर्थ 'क्षेपिष्ठक्षोदिष्ठप्रेष्ठगरिष्ठ-' इत्यमर ।’ इति नृसिहस्य विवरणम् , तत्तस्यापपाठात् सदर्भप्रलापशीलस्य न चोद्यम् । परतु कोशमप्यपार्थथाचक्र इत्यागृहीणम । यत क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबहिष्टा क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुप्रकर्षार्था' इति क्रमेण क्षेपिष्ठक्षोदिष्ठादीना शब्दाना प्रकृष्टक्षिप्त प्रकृष्टक्षुद्राद्यर्थकत्वेन क्रमेण गृहीताना पर्यायतास्फोरणादिति क्षुद्रशब्दात्प्रर्षार्थके ईयसुनि रेफलोपपूर्वगुणयो निष्पन्नस्य क्षोदीय शब्दस्य प्रकृष्टक्षुद्रार्थकत्वमव्याजसिद्धम् ॥ ५४ ॥

 अये इति । अग्रे तन्वि हे द्रौपदि, बहुनोक्तेन किं कार्यमित्युत्तरेण योज्यम् ।

 तस्येति । मम सबन्धिनी वीरलक्ष्मी तस्य कीचकस्य असृजा शोणितेन यावकितौ सजातलाक्षौ अङ्घ्री पादौ यस्यास्तथोक्ता किच तस्य अस्थ्ना कीकसाना चूर्णेन कर्पूरमय अङ्गराग विलेपन यस्यास्तथोक्ताम् । अपि च तस्य अकीर्त्या अपकीर्त्यैव मष्या अञ्जनेन अभिलिप्ते अभ्यक्ते नेत्रे यस्यास्तथोक्ता च अलकरिष्ये ॥ ५५ ॥

 वीरेति । अये तन्वि, इद उक्तविध मया उक्त कथित वीरश्रिय शौर्यल


  1. ‘अनौपायिकम्’ इति पाठ
  2. 'अस्त्राम्' इति पाठ
  3. ‘अकीर्तिमष्याथब् विलिप्तनेत्राम्’ इति पाठ