पृष्ठम्:चम्पूभारतम्.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५८
चम्पूभारते


कृष्णा ततस्तेन कृतान्तभासा केशे गृ [१]हीता भुवि पातिता सा
पर्यायबद्बोद्यमविश्रमाभ्या पद्भथा कराभ्यामपि पर्यभावि ॥ ४० ॥
अहारभीत्येव तदा मृगाक्ष्या नाडया काचिद्यान्तरधत्त सज्ञा ।
उद्गम्य सा दूरगते प्रहर्तर्युद्धाटयामास दृशौ चिराय ॥ ४१ ॥
  

 तदनु शनै शनैरुत्तस्थुषी धरातलपरागधूसरिमतिरोहितदीधितितया वासरापलपितमहौषधिलतेव विलुलितचूर्णकुन्तलतया चक्रवाताकुलीकृतवालपूलिकाच‘अपलापितमहामहौषधि’ इति पाठभरीमृगीव सूतान्ववायजनपदस्य प्रथमामीतिबाधामिव बाष्पधारामुत्सृजन्ती कचिदपि[२] शरणमलभमाना सा याज्ञसेनी मन्द मन्द तदेव भ[३]वनमभिजगाम ॥


आधत्त अबिभ्रत् तथा तथा तस्य कीचकस्य दृशोर्युग नेत्रद्वन्द्वमपि स्षा कोपेन मामप्यवधीरयतीय वराकीत्यात्मकेन आरुण्य आवत । अत्रापि पादयुगनेत्रयुगयो आरुण्यधारणेनौपम्यस्य गम्यत्वात्केवलप्रकृतास्पदस्तुल्ययोगिताभेद ॥ ३९ ॥

 कृषणेति । तत कोपोदयानन्तर कृतान्तस्य यमस्येव भा रूप यस्य तेन कीचकेन । केशे इति जात्येकवचनम् । गृहीता भुवि पातिता सा कृष्णा द्रौपदी पर्यायेण क्रमेण बद्धौ स्वीकृतौ उद्यम ताडनोद्योग विश्रम विश्रान्तिश्च तावुभौ याभ्या ताभ्या पभ्धा पादाभ्या कराभ्यामपि हस्ताभ्यामपि पर्यभावि तिरस्कृता । प्रथम पभ्धा पश्चात् कराभ्यामेव क्रमेण ताडयते स्मेत्यर्थ । क्रुद्धा कि कि न कुर्वन्तीति भाव ॥ ४० ॥

 प्रहारेति । मृगाक्ष्या द्रौपद्या या सज्ञा चेतना तदा प्रह्राराद्भीत्येवेत्युत्प्रेक्षा । क्कचित् दुर्जेयाया नाड्या जीवधातौ अन्तरवत्त अन्तर्हिता अभूत् , सा सदा प्रहर्तरि ताडके कीचके दूर गते सति चिराय उद्गम्य नाडया बहिरागत्य दृशौ द्रौपद्या नेत्रे उद्धाटयामास उन्मोलयामास । कीचकप्रहारमूर्च्छिता चिरात् सज्ञामुपलभ्य द्रौपदी लोचने उन्मीलितवतीत्यथ ॥ ४१ ॥

 तदन्विति । तदनु नेत्रोन्मीलनानन्तर शनै शनैरुत्तस्थुषी उत्थिता वरातलस्य भूमिप्रदेशस्य परागेण य धूसरिमा मालिन्य तेन तिरोहिता आच्छादिता दीधिति कान्ति यस्यास्तस्या भाव तत्ता तया वासरेण अट्ला अपलपित तिरोहित मह तेज यस्या सा महौषधिलता ज्योतिर्लतेव स्थिता विलुलिता स्रस्ता चूर्णकुन्तला अलका यस्यास्तस्या भाव तत्ता तया चक्रवातै आवर्तवायुभि आकुलीकृता वालपूलिका लोमसचय यस्या सा चमरी नाम मृगीव स्थिता । सूतस्य कीचकस्य अन्ववाय वश एव जनपद देश तस्य प्रथमा ईतिबाधा


  1. ‘गृहीत्वा’ इति पाठ
  2. ‘चमर इति पाठ
  3. ‘भूपतिभवनम्’ इति पाठ