पृष्ठम्:चम्पूभारतम्.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४१
षष्ठ स्तबक ।


चणम [१]घिकशोभनाटनपाटबमाश्रितगन्धर्वकुलमाकलितगो[२]त्रान्तर प[३]ञ्चधा रूपभुञ्चयन्ती प[४]ञ्चापि पतीननुयातवती ॥

 विमतानपि तैर्जित्वा विवासमिव दायक ।
 अक्षेष्वकुरुतावृत्तिमवनीन्द्रेण धर्मभू ॥ २१ ॥

 एव तैस्तै [५]स्वकृत्यै [६]सपादितशिर कम्प वय कृतमिव सततमनुभवता तेन[७] महीपतिना बहुमानिता पृथासुता यथा विवासनखेद् तथा तदीयमपि स्वरूपमितरे जनास्तत्र नाज्ञासिषु ।


त्ता । नतु परतन्त्रेत्यर्थ । शिल्पकारिकारिकापीति च अतएव पाञ्चालसुता द्रौपदी आदृता स्वीकृता कङ्कस्य भाव कङ्कता युधिष्ठिरत्वम् , आदृत कङ्कत प्रसावनी च यस्मिन् तथोक्तम् । ‘प्रसाधनी कङ्कतिका' इति कोशे कङ्कतशब्दात्स्वाये कप्रत्यये टापि च ‘प्रत्ययस्थात्-' इत्यादिना कात्पूर्वस्यात इत्वे च कङ्कतिकेति ग्राह्यम्। अतएव शिरसीव कङ्कतमवोढमूर्धजे’ इति माघप्रयोग । अत्यन्त रसाना मधुरादीना षण्ण क्ष्टङ्गारस्य च उत्पादनेन प्रसिद्ध तच्चणम्। एकत्रालकरणनैपुण्यात्, अन्यत्र पाकनैपुण्याच्चेति भाव । ‘तेन वित्तक्ष्चुञ्चुपूचणपौ’ इति प्रसिद्धार्थे चणप् । अधिकशोभया नाटने नाटयशिक्षणे पाटव सामर्थ्थ यस्मिस्तथोक्तम् , के शिरसि अधिक शोभाया भूषणमाल्याद्यलकरणजन्याया नाटने सयोजने पाटव यस्मिस्तथोक्तमिति च। आश्रित गन्धर्वाणा अश्वाना स्वपतीना च कुल मृन्द यस्मिस्त- थोक्तम् । आकलित आश्रित गोत्राया गोवृन्दस्य अन्तर मध्यदेश यस्मिस्तथोक्तम्, आकलित आश्रित गोत्रान्तर मालिनीत्यन्यन्नाम यस्मिस्तथोक्तमिति च। ‘गोत्रा गोनिचये भूम्या नाद्रौ श्रीकुलसज्ञयो' इति मेदिनी । अतएव पञ्चधा पञ्चप्रकार रूप सैरन्ध्रीवेप उदञ्चयन्ती प्रकटयन्ती सती। पञ्चापि पतीन् रूपान्तरमापन्नान् युधिष्ठिरादीन् अनुयातवती विडम्बयति स्म । ‘आर्तार्ते मुदिते हृष्टा' इत्यादिना पतिव्रताना पतिसमानवमस्मरणादिति भाव । अत्र स्ववशेति विशेषण स्य श्लेषभित्तिकाभेदाव्यवसितपञ्चविधरूपोदञ्चनसामर्थ्थाभिप्रायगर्भत्वात्परिकरस्य श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तेक्ष्च अङ्गाङ्गिभावेन सकर ॥

 विमतानिति । वर्मभू युधिष्ठिर तैरपि अत्रैरपि विमतान् दुर्योधनादीन् जित्वा विवास तेषा राज्यभ्रश दायक वितरिष्यमाण इवेत्युत्प्रेक्षा । अवनीन्द्रेण सह विराटेन सह अक्षेषु पाशकेषु । अक्षक्रीडायामिति यावत् । आवृत्तिं पौनपुन्येन खेलन अकुरुत चक्रे। बिवास दायक इत्यत्र ‘अकेनोर्भविष्यदाधमर्ण्ययो' इति कृद्योगे षष्ठीप्रतिषेध ॥ २१ ॥

 एवमिति । एव उक्तप्रकार स्वै खीयै तैस्तै कृत्यै अक्षक्रीडापाकनाट


  1. ‘अधिगत’ इति पाठ
  2. ‘गोश्रापलाप’ इति पाठ
  3. पञ्चानामपि’ इति पाठ
  4. पाञ्चालनृपतिसुता पश्चापि’ इति पाठ
  5. ‘कृतै ’ इति पाठ
  6. ‘सपादितम्' इति पाठ
  7. अनेन' इति पाठ