पृष्ठम्:चम्पूभारतम्.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४८
चम्पूभारते


आगता नगरवासवाञ्छया देवतेव विपिनस्य पार्ष [१]ती ।
केलिपुष्पमिव दन्तकङ्कत बिभ्रती नृपवधूमुपागमत् ॥ १८ ॥

 सैरन्ध्रीरूपभाजोऽस्या जातिनैच्यान्नत शिर ।
 सुदेष्णायास्तु ता दृष्ट्वा सुन्दरी [२]व्रीलगौरवात् ॥ १९ ॥

 वनभुव इव माधवोदयश्री-
  र्मनुजपतेरवरोधयोषितोऽसौ ।
 अनुदिनमखिलालिळालनीयै-
  रलमकरोत्तिलकैरतीव दृश्यै ॥ २० ॥

अनन्तर [३]स्ववशा पाञ्चालसुता भृशमादृतकङ्कतमतिरसोत्पादन-


 आगतेति । नगरवासे पह्णणनिवासे वाञ्छया आगता विपिनस्य देवतेव स्थितेत्युत्प्रेक्षा । पार्षती द्रौपदी केल्या क्रीडार्थ पुष्पमिव स्थितमित्युत्प्रेक्षा । पूर्वसापेक्षेति सकर । दन्तमय क्ह्क्त केशसस्कारकयन्त्रविशेष बिभ्रती सती । ‘प्रसाधनी कङ्कतिका’ इत्यमर । सैरन्ध्रीत्वसूचकमिद विशेषणम् । नृपस्य विराटस्य वधू सुदेष्णा प्रति उपागमत् आगतवती । उक्तसकरपरिकरयो ससृष्टि । रथोद्धता ॥ १८ ॥

 सैरन्ध्रीति । सैरन्ध्र्या शिल्पकारिकाया रूप आकार भजतीति भाज । अस्या द्रौपद्या शिर जाते सैरन्ध्रीकुलस्य नैच्यात् अपकर्षाद्धेतो नत नम्र अभूत् । सुदेष्णाया विराटपत्न्या शिरस्तु ता सुन्दरीमिति प्रस्तुतोचितनिर्देश । द्रौपदी दृष्ट्वा व्रीलगौरवात् लज्जातिशयाद्धेतो नतमभूत् । ‘सैरन्ध्री परवेश्मस्था स्वचशा शिल्पकारिका' इत्यमर । अत्रोभयो शिरसो नमनेनौपम्यस्य गम्यत्वातुल्ययोगिताभेदस्य नमनहेतुनसनयो उक्तिरूपहेत्वलकारस्य च द्वयोरेकवाचकानुप्रवेशसकर ॥ १९ ॥

 वनेति । असौ सैरन्ध्रीररूपधारिणी द्रौपदी सनुजपते विराटस्य अवरोधयोषित अन्त पुराङ्गना माधवोदयक्ष्री वसन्ताभ्युदयलक्ष्मी वनभुव वनसीमा इव अखिलाभि आलीभि सखीभि अखिलैरलिभिश्च लालनीयै अतएव अतीव ह्श्यै भृश प्रेक्षणीयै तिलकै चित्रकै वृक्ष विशेषेश्च दिने दिने अनुदिन अलमकरोत् अलचकार । श्लिष्टसाधर्म्येयमुपमा । पुष्पिताग्रा ॥ २० ॥

 अनन्तरमिति । अनन्तर सर्वेषा विराटपुरावासानन्तरम् । स्ववशा स्वाय-


  1. ‘वीक्ष्यैनाम्' इति पाठ
  2. 'त्रीडपीडनात्' इति पाठ
  3. ‘स्ववशा भ्रमादूत’ इति पाठ