पृष्ठम्:चम्पूभारतम्.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४३
षष्ठ स्तबक ।


स्त्यस्य कोपोदिताच्छापोदधेरुत्तरैरुत्तार्य तस्मादेव विस्मारितनिजविधि[१]दुर्विलसितया तया वरारोहया सह दु सहनिजधामापिधानवैदग्ध्यमभ्यसितुकामा इव ते [२]मात्स्यनगरस्य [३]नातिसमीपपितृवनगामिनी शमीमभजन् ॥

 क्त्रमेण मत्स्येन्द्रपुरोपकण्ठे करालमापु पितृकानन ते ।
 वधूद्रुहा भाविनि सूतजाना वधप्रदेशस्य दिदृक्षयेव ॥ २ ॥
 शमीतरौ तत्र निधाय शस्त्रममी तदन्तर्ज्वलदग्निकल्पम् ।
 जगाहिरे वेषमिवान्यमुञ्चैर्ध्वज विराटस्य पुर प्रवीरा ॥ ३ ॥


इत्यर्थ । पारिकाङ्किण मुने अगस्त्यस्य कोपेन उदितात् उत्पन्नात् शापात् अजगरत्वप्रापकादेव उदधे समुद्रात् उत्तरै तत्प्रश्नप्रतिवाक्यैरेव प्लवैरिति श्लिष्टरूपकम् । उत्तार्य तारयित्वा । शापान्मोचयित्वेत्यर्थ । तस्मात् विघिदुविलसितप्राप्ताजगरभावान्नहुषादेव चिस्मारित अशोचनीयत्वेन कारित निज च विधे दैवस्य दुविकसित वनवासदु खजनन यया तथोक्तया । महतामपि दुर्ल- ङ्घया दैवी गति , अतो मयापि न शाचनीयमेतदिति धैर्यावलम्बिनेत्यर्थ । तया वरारोहया द्रौपद्या सह दु सहस्य आच्छादयितुमशक्यस्य निजस्य धाम्न तेजस पिधाने आच्छादने विषये वैदग्ध्य कौशल अभ्यसितु कामो येषा तथोक्ता इवेत्युप्रेक्षा । मात्स्यनगरस्य विराटपुरस्य नातिसमीपे ईषहूरदेशे विद्यमान पितृवन श्मशान गच्छतीति तद्भामिनीम्। तत्र वर्तमानामित्यर्थ ।'श्मशान स्यात्पितृवनम्' इत्यमर । शमी नाम वृक्ष अभजन् प्रापु । अत्र च ‘वृषाकपि शमीगर्भो हव्यवाहो द्रुमाशन ’ इति वनजयकोशादौ लोके, ‘शमीगर्भादग्नि मध्नन्ति’ इति वेदे च, अग्ने शमीगर्भत्वेन प्रसिध्धा तद्रर्भवद्भजने तेजस्तिरोधानाभ्यसनहेतुत्वमुत्प्रेक्षितम्। ‘अजगरे शयुर्वाहस इत्युभौ', ‘सप्तार्चिर्दमुनाश्चित्र ', ‘तपस्वी तापस | पारिकाङ्क्षी वाचयमो मुनि’, ‘वरारोहा मत्तकाशिनी’ इति क्रमेण तत्तद्विशेषपर्यायेष्वमर ॥

 क्त्रमेणेति । ते पाण्डवा क्त्रमेण गमनपर्यायेण पादचारेण वा उपलक्षिता वध्वे द्रौपद्ये द्रुह्यन्तीति तद्रुहाम् । उत्तरत्रेति शेष । सूतजाना कीचकाना सब- न्धािनि भाविनि भविष्यति वधप्रदेशस्य। वधस्थानस्येत्यर्थ । द्रष्टुमिच्छा दिदृक्षा तयेवेत्युत्प्रेक्षा । मत्स्येन्द्रपुरस्य विराटनगरस्य उपकण्ठे समीपे कराल भयकर पितृकानन श्मशान आपु प्राप्तवन्त । उपेन्द्रवज्रा ॥ २ ॥

 शमीति । अमी प्रवीरा पाण्डवा तत्र श्मशाने शमीतरौ तस्य शमीवृक्षस्य


  1. ‘दुर्विलसादासादितवरा वरारोइया तया सह’ इति पाठ
  2. ‘ते’ इति नास्ति क्कचित्
  3. ‘अनतिसमीपगामिनी पितृवनशमीम्' इति पाठ