पृष्ठम्:चम्पूभारतम्.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४१
पञ्चम स्तबक ।

  तद्वहुधा परीक्षितेन भवत शीलेन समञ्जसेन प्रश्नोत्तरेण च प्रसेदिवानस्मि । तस्मान्म[१]मानुग्रहेण स्वप्रान्निवृत्तैरिव भूयोऽप्युत्थितैरनुजन्मभि सह त्रयोदशीं शरद वे[२]षान्तरवन्त भवन्त कोऽपि न [३]जानीयादिति [४]वरमरणि च विस्मयविस्मारितनयनपरिस्पन्दनाय निजनन्दनाय प्रतिपाद्य स पुमानन्तर्दधे ॥

 तत्तादृशो भगवतो वचसा निकाम-
  मासाद्य मोदभरमाश्रममागतानाम् ।
 प्राप्तारणेर्द्बिजवरस्य शुचेव साक-
  [५]मन्त जगाम समयोऽपि महानमीषाम् ॥ ११५ ॥

 इत्यनन्तभट्टक् विकृतौ चम्पूभारते पञ्चम स्तबक ।


 तदिति । 'तत् तस्मात् बहुधा अनेकप्रकार परीक्षितेन भवत शीलेन खभावेन च समञ्जसेन समुचितेन भवत सबन्धिना प्रश्नाना मदीयाना उत्तरेण प्रतिवाक्येन च द्वाभ्या प्रसेदिवान् प्रसन्नोस्मि । तस्मात् प्रसन्नत्वाद्धेतो मम अनुग्रहेण प्रसादेन स्वप्रात् निद्रात निवृत्तै । प्रत्यागतै । प्रबुद्द्धैरिति यावत् । भूयोऽपि पुन उत्थितै लब्धजीवितैरित्यर्थ । अनुजन्मभि भ्रातृभि सह त्रयोदशी शरद सवत्सर सर्वमपि । अत्यन्तसयोगे द्वितीया । वेषान्तराणि अन्यवेषा सन्यासादय तद्वन्त भवन्त कोऽपि अतिनिपुणोऽपि न जानीयात् मा बुध्यतु । इत्युक्तप्रकार वर च त मृगवेषेणात्मनापहृत अराणि च । ब्राझणस्येति शेष । विस्मयेन आश्चर्येण विस्मारित विस्मृतवेन कारित । नयनयो परिस्पन्दन निमेषोन्मेषव्यापार । यस्य तस्मै । आश्चर्येण निश्चल्क्षायेत्यर्थ । निजाय नन्दनाय पुत्राय घमराजाय प्रतिपाद्य दत्त्वा स पुमान् दिव्यपुरुष अन्तर्दधे अन्तर्हितवान् अत्र वाञ्छिताभ्या भ्रातृजीवनारणिलाभाभ्या अधिकस्य अज्ञातवाससवत्सरें परदुर्जेयवेषान्तरलाभवरस्य वर्णनात्प्रहर्षणभेद । 'वञ्छितादधिकार्थस्य सिद्धिं चाहु प्रहर्षणम्’ इति लक्षणात् ॥

 तदिति । तत् तादृश । अनुपमस्वभावादिति भाव । भगवत यमस्य वचसा बरदानवाक्येन निकास अत्यन्त मोदभर सतोषातिशय आसाध प्राप्य आश्रम निज प्रति आगताना प्राप्ताना अमीषा पाण्डवाना सबन्धि महान् द्वादशवार्षिकत्वेन विस्तीर्ण समय वनवासशपथोऽपि प्राप्त तेभ्य लब्ध


२१

  1. ‘मदनुग्रहेण' इति पाठ
  2. ‘रूपातर इति पाठ
  3. विजानीयात्' इति पाठ
  4. ‘बर च तभरर्णि' इति पाठ
  5. ‘अतर्जगाम’ इति पाठ