पृष्ठम्:चम्पूभारतम्.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३५
पञ्चम स्तबक ।


 तस्यास्तटे कमलिनीदलपत्रपाणी-
  स्तान्पङ्क्तिशो निपतितानवलोक्य वीरान् ।
 बाष्पाम्वुभि प्रथमदर्शित[१]मार्गयेव
  तन्वा नृपस्य धरणौ सहसा निपेते ॥ १०२ ॥
स नृपतिर्ददृशेऽधिकवत्सल सपदि मूर्छितधीर्निभृताङ्गक ।
स्वयमपि प्रविभज्य तदा दशामनुभवन्निव तामनुजाश्रिताम् ॥१०३ ॥
 नासाविलोभनपटून्नवप[२]झगन्धा-
  नादाय तत्र मधुपैरनुसेव्यमाना ।
 वर्द्विष्णुचेतनम[३]मु वनवापिकाया
  कल्लोलमल्लपवना कलयाबभूवु ॥ १०४ ॥


 तस्या इति । तस्या वाप्या तटे तीरे कमलिनीदलानि पद्मपत्राण्येव पात्राणि जलभाजनानि पाण्योयेषा तान् पङ्क्तिश निपतितान् । मृत्वेति शेष । तान् भीमादीन् वीरान् अवलोक्य बाष्पाम्वुभि प्रथम पूर्व दशित मार्ग निपतनरूप यभ्यास्तथोक्तयेव स्थितयेत्युत्प्रेक्षा । नृपस्य धर्मराजस्य तन्वा शरीरेण धरणौ भुवि सहसा दु खवेगात् सत्वर निपेते पतितम् । पततेर्भावे लिट् ॥ १०२ ॥

 स इति । अधिक वत्सल भ्रातृशोकान्वित सपदि पतनक्षण एव मूछिता यी चेतना यस्य स । अतएव निभृतानि निश्चलानि अङ्गानि यस्य स तम । शैषिक कप्प्रत्यय । स नृपति अनुजै भीमादिभि आश्रिता दशा मरणावस्था प्रविभज्य समाश विभाग कृत्वा स्वयमप्यनुभवन्निवेत्युत्प्रेक्षा । ददृशे दृष्ट । तत्रत्यैरिति शेष । भ्रातृणा सामुदायके वस्तुनि समाशहारित्वस्मरणादिति भाव । दृशे कर्मणि लिट् । द्रुतविलम्बितम् ॥ १०३ ॥

 नासेति । तत्र तदानीं नासाया घ्राणस्य विलोभने तृष्णाजनने पढ़न् समर्थान् नवान् पद्मना गन्धान् आदाय मधुपै अलिभि अनुसेव्यमाना इति मान्धोक्ति । वने वापिकाया पूर्वोक्ताया कल्लोलमल्लाना श्रेष्ठतरङ्गाणा सबन्धिन पवना वायव असु मूर्च्छित धर्मराज वर्धिष्णु पुन प्राप्तिशीला चेतना सज्ञा यस्य तथोत कलयाबभूवु चकु । अत्र वायूना गुणसमृद्धे विशेषणगत्या नृपचेतनासघटनहेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् । ‘आघ्राय’ इति पाठस्त्वसगतार्थत्वात् क्थचिदुक्तार्थलक्षणया योज्य ॥ १०४ ॥


  1. ‘माग एव’ इति पाठ
  2. ‘पुष्प’ इति पाठ
  3. ‘इम नबवापिक्राया ’ इति पाठ