पृष्ठम्:चम्पूभारतम्.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३१
पञ्चम स्तबक ।


 ततस्तथेति परमङ्गीकृत्य पश्यतस्तनूजस्य समक्षमचिरेण स मरीचिमाली चरमाचलशिखरपरिशील्यमानविहारमिहापि समाचचार ॥

 कतिपयदिने काले याते ततो मरुता पति   सदसि तनय भानोरेत्यार्थिचाटुशताकुले ।  कवचमतुल वाचायाचत्सकुण्डलमादरा-   दयमपि तथेत्युक्त्वा शक्ति ततो जगृहेऽद्भुताम् ॥ ९५ ॥

नकारमेते वहतो रिपु [१] ममेत्यमर्षभारादिव शत्रधारया । सुतो रवेर्दशन [२]कर्णवेष्टने स्वय समुत्कृत्य ददौ बिडौजसे ॥ ९६ ॥


तथोक्त आतन्वती कुर्वतीं तस्य इन्द्रस्य इमा तदीया शक्ति नाम आयुध आदत्स्व गृहादण । प्रत्युपकारद्वारेति भाव । इति निदेशावशेषपयपान्या निर्मि मीत इति पूर्वेणान्वय ॥

 तत इति । तत तथा इन्द्राच्छक्तिं गृह्णीयामिति पर भृश अङ्गीकृत्य पश्यतस्तनूजस्य कर्णस्य समक्ष प्रत्यक्ष एव स मरीचिमाली सूर्य चरमाचलस्य अस्त गिरे शिखरे परिशील्यमान क्रियमाण विहार क्त्रीडाम्। अस्तमयमिति यावत्। इह कर्णपुरोभागेsपि अचिरेण सत्वर समाचचार कृतवान् अन्तर्हितवान् ॥

 कतीति । तत अनन्तर कतिपयानि कानिचिद्दिनानि यस्मिन् तस्मिन् काले याते गते सति मरुता देवाना पति इन्द्र अर्थिना याचकाना चाटुशतै प्रिय वाक्यशतै आकुले सान्द्रे सदसि सभायाम् । 'स्त्रीनपुसकयो सद’ इत्यनुशासनात् नपुसकत्वम् । भानो सूर्यस्य तनय कर्ण एत्य प्राप्य अतुल सहजत्वाद सदृश कुण्डलाभ्या सहित सकुण्डल कवच वाचा देहीत्यात्मिकया अयाचत् भिक्षितवान्। याचते कर्तरि लड् । अय कर्णोऽप्यादरात् तथा दास्यामीति उक्त्वा तत याचमानकवचकुण्डलात् इन्द्रात् अद्भता लोकोत्तरा शक्ति आयुधविशेष जगृहे गृहीतवान् । हरिणण्लुतावृत्तम्-'रसयुगहयैश्छिन्ना न्सौम्रौ स्लगा हरिणप्लुता' इति लक्षणात् ॥ ९५ ॥

 नकारमिति ।एते दशनकर्णवेष्टने नफ़ार नाक्षर निषेधार्थक वहत बिभुत । खनान्मीति शेष । अत कारणात् मम दातु रिपू शत्रू इत्युक्तप्रका रात् अमर्षभारात् कोपातिशयादिवेत्युत्प्रेक्षा । रवे सुत कर्ण शत्रस्य असे धारया अञ्चलेन समुत्कृत्य उत्पाटय दशनकर्णवेष्टने कवचकुण्डले बिडौजसे । इन्द्राय स्खय ददौ दत्तवान् । ‘तनुत्र वर्म दशनम्', ‘कुण्डल कर्णवेष्टनम्’, 'बिडौजा पाकशासन’ इति सर्वत्रामर ॥ ९६ ॥


  1. रिपु' इति पाठ
  2. ‘दर्शन’ इति पाठ