तपस्विनस्तस्य तप कृशस्य सरुपतामाप्तुमि [१]वाश्रयद्भि । |
आपादनेन समिधामभिषेकवारा- |
एका समा तत्र वसन्कदाचिदेका स मा पार्क्ष्वगतामवेक्ष्य । समाघिवृत्त्या सह मौनमुद्रा समापयामास तपोधनेन्द्र ॥ ४२ ॥
'वत्से, भवस्तेवासप्रदायेन सप्रति भृश प्रसीदामि' इति व्याहृत्य स मुनिरनुकम्पितचेता मह्यमत्यर्थमभीप्सितार्थसमर्थापनपरतान्त्र कमपि मव्रमु[३]पादिक्षत् ।
महान्विकासो वृद्धिर्यस्या सा मम भक्त्तिरेव वल्लरी पुष्पलता तापसस्य दुर्वास सोSन्तिके सनिघाववर्धत प्रवृद्धाभूत् । रुपकालकार ॥ ३९ ॥
तपस्विन इति । तपसा कृशस्य तपस्विनो दुर्वासस सरुपता सारुप्यमाप्तुमिवेत्युत्प्रेक्षा । आश्रयद्भि सेव्यमानैर्दयनीय कारुण्यास्पद रुपमाकृतिर्येषा तै । कृशीभूतैरिति यावत् । अशेषैरङ्गैरवयवैरतिकार्श्यमापे प्राप्तम् । आप्नोतेर्भावे लिट् ॥ ४० ॥
आपादनेनेति । तापसेन्द्रो दुर्वासा समिधामिन्धनानामभिषेकस्य वारा जलानामभ्यर्चनासुमनसा देवपुजाकुसुमानामपि त्रयाणामापादनेन सपादनेन हेतुनाSमितामनेका शिष्यजनता शिष्यभाव मग्येव वितन्वन्विस्तारयन्सन् । एकयैव शिष्यत्रयकृत्यसपादनादिति भाव । अन्ते समीपे । मनसीति यावत् । वसन्त वर्तमानमपि शिष्यमपीति च । कोपमपाचकार दूरीकृतवान् । प्रसन्नोSभुदित्यर्थ । 'छात्रान्तेवासिनौ शिष्ये' इत्यमर ॥ ४९ ॥
तत किमित्यत आह एकामिति । स तपोधनेन्द्रो दुर्वासास्तत्र गृहाराम एका समा सवत्सरम् । 'हायनोSत्नी शरत्समा' इत्यमर । वसन्सन् । कदाचित्पार्क्ष्वगता निकटस्थितामेका परिजनरहिता भा अवेक्ष्य समीक्ष्य समाधेर्योसगस्य वृत्त्याभ्यासेन सह मौनमुद्रा वाचयमत्व समापयामासावसितवान् । द्वयमपि त्यक्त्वा मामुवाचेत्यर्थ ॥ ४२ ॥
वत्स इति । हे वत्से कुन्ति, भवत्या सेवासप्रदायेन शुश्रूषाविधिना सप्रती दानीं भृश प्रसीदामि प्रसत्रोSस्मि । इत्युक्त्तप्रकारेण व्याहृत्योक्त्वानुकम्पित कृषान्वित चेतो मनो यस्य तथोक्त्त स मुनिर्दुर्वासा मह्यमत्यर्थ भृशभभीप्सितार्थस्य ।