पृष्ठम्:चम्पूभारतम्.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
चम्पूभारते


सपत्राकृतो धृतत्रासतया विनय [१]विपर्ययो विद्यामिव कृष्णा विमुच्य कृतपलायन स दुर्मेधा पुर प्रधावितेन मागधविरोधिना रुरुधे ॥ कचे गृहीत्वा भुवि पातितस्य कठोरचारित्रपरस्य शत्रो । सताडने मारुतिरात्मपाणे सच्छात्रयामास पद च वामम् ॥ ७६ ॥

 सौवीरभर्तुरथ मूर्धनि पञ्चचूडा
  कलृप्ता क्षुरेण पवनात्मभुवा विरेजु ।
 इङ्गालधूमकलिका इव शाम्यतोऽन्त-
  स्त्रासाम्बुभि स्मरशरानलपञ्चकस्य ॥ ७७ ॥
 विमतमनुजनीत वीक्ष्य भूप स्मितास्य
  कृतनतिशिरस त केशभारे हृतेऽपि ।


एव दुर्मेधा दुष्टबुद्धि स सैन्धव धृत त्रास भय येन तस्य भावस्तत्ता तया हेतुना कृष्णा द्रौपदी विनयविपर्यय विनयराहित्य विद्यामिव विमुच्य व्यक्त्वा कृतपलायन सन् पुर स्वतोऽप्यग्रे प्रधावितेन मागधस्य जरासधस्य विरोधिना भीमेन रुरुधे निरुद्ध । रुधे कर्मणि लिट्। यत्तु ‘सापत्रपीकृत ’ इत्य पपाठ कल्पयित्वा ‘लज्जान्विततया कारित ’ इति विनयविपर्यय विनयरहित पुरुष ” इति च मृसिंह प्रललाप, तदबोधात् कर्णपूरेत्याद्यर्जुनविशेषणवैयर्थ्यापत्तेर्विपर्ययशब्देन व्युत्पत्त्यन्तर विना तद्वतो बोधायोगात् । व्युत्पत्त्यन्तरे च क्लिष्टत्वदोषापत्तेश्चेति विद्वच्छिखामणिभिराकलनीयम् । ‘सपत्रनिष्पत्रादतिव्यथने’ इत्यनेन करोतियोगे डाजूविधानात्सपत्राकृत इति रूपम् ॥

 कच इति । मारुति भीम कठोरे अतिनिन्धे चारित्रे कर्मणि परस्य सक्तस्य अतएव कचे केशे । जात्येकवचनम् । शिखायामिति वा गृहीत्वा भुवि पातितस्य शत्रो सैन्धवस्य सम्यक् ताडने विषये । आत्मन पाणे वाम पद च सच्छात्रयामास सहाध्यायिन चक्त्रे । पाणिना पादेन च ताडितवानित्यर्थ ॥ ७६ ॥

 सौवीरेति । अथ ताडनानन्तर सौवीरो देशविशेष तस्य भर्तु राज्ञ सैन्धवस्य मूर्धनि पवनात्मभुवा पवमानभुवा भीमेन (कर्त्रा)क्षुरेण बाणविशेषेण करणेन । कृल्प्ता निर्मिता पञ्चचूडा शिख त्रास एव अम्बूनि जलानि तै अन्त मनसि शाम्यत निर्वाण गच्छत स्मरशराणा ये अनला अग्नय तत्पश्च कस्य । इङ्गालेभ्य सिक्ताङ्गारेभ्यो ये यूमकलिका कुड्नलाकृतिधूमा त इवेत्युत्प्रेक्षा । विरेजु ॥ ७७ ॥

 विमतमिति ।भूप धर्मराज अनुजाभ्या भीमार्जुनाभ्या नीत निकट प्रापित केशे यो भार केशसचयश्च तस्मिन् हृते सत्यपि कृता नति नम्रत्व


  1. विचमिव विनयविपयय ’ इति पाठ