पृष्ठम्:चम्पूभारतम्.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२३
पञ्चम स्तबक ।


 तत क्रन्दन्तीं कुररीमिव नि[१]न्दन्तीमेना पुरस्ताधिरोप्य सूतकरतोत्रण्डाध्यापितवेगतन्त्रपारीणरथ्येन घनतरज[२]धनपयोधरभाराक्त्रमणविनम्री[३]कृतपूवेभागतया पार्थदर्शनशङ्कया निकुब्जीभूयेव धावता शताङ्गेन निमिषचूषितपरीणाहवनीपथ जयद्रथ पुनरष्याश्रमपदमाश्रित्य निशमितप्रमदावार्तेन [४]पार्थेन दावार्तेनेव पूर्वजेन नियुक्तौ जटारिकिरीटिनौ रोषविद्रुमलताकिसलयैरिव लोचनै शरासन वि[५]कीर्य [६]मृगयानिवृत्तमात्रेण चरणेन द्रुतमन्वद्रवताम् ॥

 तत [७]क्षणादेव कर्णपूरव[८]नकुसुमसौरभजिघ्रत्सिञ्जिनीकेन धनजयेन


 तत इति । तत प्रहणानन्तर कुररी उत्क्रोशपक्षिणीमिव कन्दन्ती निन्दन्ती ‘किमनुचितमेव करोषि कुलाबम विक्, त्वाम्’ इति कुत्समाना एना द्रौपदी पुरस्तात् रथस्य पूर्वभागे अधिरोप्य उपवेश्य सूतस्य सारथे करे तोत्रदण्डेन कशया अध्यापितस्य शिक्षितस्य वेगस्येव तन्त्रस्य शास्रस्य पारीणा पारगता । अतिवेगवन्त इति यावत् । रथस्य वोढार रथ्या अश्वा यस्य तेन घनतरस्य अतिमहत जघनपयोधरस्य कटिपुरोभागस्य कुचयोश्च भारस्य आक्रमणेन व्याप्त्या विशेषेण नम्रीकृत भुमीकृत पूर्वभाग अग्रदेश यस्य तस्य भाव तत्ता तया हेतुना पार्थाना मृगयाय। प्रति निवर्तमानाना दर्शनस्य शङ्कया वितर्केण भयेन वा निकुब्जीभूय हस्वीभूय धावता पलायमानेनेव स्थितेनेत्युत्प्रेक्षा । शताङ्गेन रथेन निमिषेण पक्ष्मपातमात्रकालेन चूषित अतिक्रान्त परिणाहो विशाल वनीपथ अरण्यमार्ग येन त जयद्रथ सैन्धवम् । उद्दिश्येत्यर्थ । आश्रमपद प्रति पुनरप्याश्रित्य प्राप्य । निशमिता श्रुता प्रमदाया द्रौपद्या वार्ता सैन्धवेनापहरणरूपा येन तेन। अतएव दावेन वनाग्निना आर्तेन पीडितेनेव स्थितेनेत्युत्प्रेक्षा । पूर्वजेन ज्येष्ठेन युधिष्ठिरेण। पूर्वमागतेनेति भाव । नियुकौ प्रेरितौ जटारि भीम किरीटी अर्जुनश्च उभौ । रोष एव विद्रुमलता तस्या किसलयै पल्लवैरिव स्थितैरित्युत्प्रेक्षा । लोचनै शरासन चाप विकीर्य । सैन्धववधाय क्रोवारुण दृष्टवेत्यर्थ । मृगयाया निवृत्तमात्रेण आगतेनैव । नतु क्षण विश्रान्तेनेत्यर्थ । चरणेन द्रुत शीघ्र अन्वद्रवता अन्वधावताम् । उत्प्रेक्षान्नयस्य सजातीयस्य ससृष्टि ॥

 तत इति । तत अनुवावनानन्तर क्षणादेव कर्णपूरस्य कर्णावतसस्य वनकुसुमस्य सौरभ परिमल जिघ्रन्ती सिञ्जिनी मौर्वी यस्य तेन । आकर्णाकृष्टवनुपर्गुणेनेत्यर्थ । वनजयेन अर्जुनेन सपत्राकृत पुङ्क्तपर्यन्तमन्तर्मग्नबाणीकृत । अत


  1. ‘रुदतीम्’ इति पाठ
  2. ‘तज्जघन’ इति पाठ
  3. “भूत’ इति पाठ
  4. पार्थेन इति नास्ति कचित्
  5. ‘अवकीय’ इति पाठ
  6. ‘मृगयाविहारनिवृत्त'इति पाठ
  7. ‘अन्वदुद्रुवताम्' इति पाठ
  8. ‘वन' इति नास्ति कश्चित्