पृष्ठम्:चम्पूभारतम्.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१८
चम्पूभारते


वीणा समस्ता विजयेन कुत्ता गन्धर्व[१]सैन्याङ्गलिता निपेतु ।
आयुष्मती केवल[२]मालुलोके हस्ताग्रवीणा दिवि नारदस्य ॥ ६३ ॥
 एतावतीति युधि मार्गणचारशक्ति
  स्पष्टीबभूव सुरगायकपाण्डवानाम् ।
 तेषा ययु शरकुलानि हि लक्ष्यमात्र
 लक्ष्य विभिद्य पुनराययुरन्तमेषाम् ॥ ६४ ॥

 तत्र शक्त्रसुतस्य तादृश बिक्रभमभिनन्द्य कृतसधानेन गन्धर्वराजेन समार्पित पौरुषहीन[३]मिद न पुरस्करणीयमिति [४]बन्धनमिषेण पश्चादुपनीतबाहुयुगुल सुयोधनमादाय ते भीमादयो वसुधाधिपस्य सनिधि [५]प्रत्यनयन् ॥


यनामिति यावत् । वितेनु चक्रु । ‘वाजिवाहार्वगन्धर्व-' इत्यश्वपर्यायेष्वमर । अत्र गकारस्य बहूनामादित्वेन ग्रहणाच्छेकानुप्रास ॥ ६२ ॥

 वीण इति । विजयेन अजुनेन कृत्ता छिना अतएव गन्धर्वसैन्यात् गलिता समस्ता वीणा गान्वर्य निपेतु पतन्ति स्म । भुवीति शेष । परतु नारदस्य मुने हस्ताग्रे वीणा केवल महत्येवैका दिवि आकाशे आयुष्मती अच्छिन्ना सती आलुलोके दृष्टा । लोकैरिति शेष । अतिशयोक्ति ॥ ६३ ॥

 एतावतीति । सुरगायकाना गन्धर्वाणा पाण्डवाना च उभयेषा सबन्धिनी मागणाना चारे सचारणे शक्ति सामर्थ्य एतावती इयतीति युधि युद्धे स्पष्टीबभूव स्पष्टाभूत् । हि यत तेषा गन्धर्वाणा शरकुलानि बाणभृन्दानि लक्ष्यमात्र ययु शरव्य प्रापुरेव । न तु तद्भीत्या तदन्तिफमाययुरित्यर्थ । एषा पाण्डवाना शरकुलानि तु लक्ष्य विभिद्य अन्त एतत्समीप प्रति पुनराययु आगतानि । तत स्पष्टीबभूवेति योज्यम् । अत्र लक्ष्यप्राप्तिमात्रेण लक्ष्यभेदनपुनरन्तिकागम नाभ्या च गन्वर्वपाण्डवबाणसचारणशक्तयो स्वल्पत्वमहत्त्वानुमानादनुमानद्वयसजातीयत्वेन ससृष्टम् । उत्पतिता बाण अध पुन पतन्ति, अध पतिताश्च पुनर्वोत्पतन्तीति तत्तत्वम् ॥ ६४ ॥

 तत्रेति । तत्र तस्मिन् युधि तादृश असह्श शक्रसुतस्य अर्जुनस्य विक्रम पराक्त्रम अभिनन्द्य श्लाघित्वा कृत सधान सधि येन तेन गन्धर्वराजेन चित्रसेनेन समर्पित प्रत्यर्पित पौरषेण शौर्येण हीन शून्य इद भुजयुगुळ न पुरस्करणीय नाग्रे स्थापनीयमिति हेतो बन्धनस्य गन्धर्वकृतस्य मिषेण व्याजेन पश्चात् पृष्ठत उपनीत प्रापित बाह्वोर्युगुल येन तथोक्तमिव स्थितमिति गम्यसापह्नवो-


  1. ‘बभूवु’ इति पाठ
  2. ‘आस लोके' इति पाठ
  3. ‘परिहीनम्’ इति आठ
  4. ‘बन्धमिषेण इति पाठ
  5. 'अधिरोपयामासु ’ इति पाठ