पृष्ठम्:चम्पूभारतम्.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१२
चम्पूभारते


 अभ्रलिहस्य वटभूमिरुहस्तलेऽसौ
  स्थित्वाश्टणोत्तदनु वैणिकगीतिरीतिम् ।
 सगीतभङ्गिरसिक सह बन्धुवर्गै-
  राकारयन्निव सुराधिपगायकेन्द्रम् ॥ ५० ॥

 ताव[१]त्तस्य धार्तराष्ट्रस्य चेष्टितरौक्ष्य निरीक्ष्य नितरा क्रुधान्ध
सुधान्ध पतिनिदेशेन वनावनिदेशेऽ[२]वतीर्णस्तू[३]र्ण विधूतकृपाणबाणचापकलापतनुत्रसेनश्चि[४]त्रसेनश्चिरक्षुधितस्तरक्षुश्चमूरुततिमिव चमूममू निवार्य क्ष्वे[५]लया लोलयाचक्त्रे ॥


रज्जुभि पाशै नहनस्य बन्धनस्य स्थानसूचन प्रदेशनिर्देश कुस्त इति कृती इव स्थिते इत्युत्प्रेक्षा । अङ्गदे केयूरे भुजयुगेन धारयन् सन्। सैनिकान् पङ्क्तिश विबभाज । पक्त्टि बन्धाश्चकारेत्यर्थ । सम्यगात्मान पाण्डवा पश्यन्वियाशयादिति भाव । अत्राङ्गदधारण कटकमुकुटादिधारणस्याप्युपलक्षणम् । रथोद्धता ॥ ४९ ॥

 अभ्रमिति । तदनु तदनन्तर असौ दुर्योधन अभ्रलिहस्य आकाशस्पर्शिन । अत्युन्नतभ्येति यावत् । वटभूमिरुह वटवृक्षस्य तले अव प्रदेशे स्थित्वा । सगीतभङ्गिषु गानविशेषेषु रसिक सुशिक्षित सुराधिपस्य इन्द्रस्य गायकेन्द्र चित्रसेन बन्धुवर्गै सह आकारयन् ' आह्वयन्निवेत्युत्प्रेक्षा । वीणाशिल्पिना वैणिकाना गीतरीतिं सगीतभङ्गीं अद्यणोन् श्रुतवान् । श्रुणोते कर्तरि लड् ॥ ५० ॥

 तावदिति । तावत् तदानीं तस्य वार्तराष्ट्रस्य दुर्योधनस्य चेष्टितस्य पाण्डवतिरस्काररूपस्य रौक्ष्य पारध्य निरीक्ष्य नितरा कुधा कोपेन अन्धस्य सुधान्धसा देवाना पते इन्द्रस्य निदेशेन आज्ञया वनावनिदेशे द्वैतवनभू भागे अवतीर्ण प्रविष्ट तूर्णं सखर यथातथा विधृतानि कृपाणा खझा बाणा चापा क्लापा तूण्य तनुत्राणि कवचानि च यया तादृशी सेना यस्य तथोक्त चित्रसेनो नाम गन्धर्वरान । अमू दुर्योधनसबन्धिनी चमू निवार्यं चिरात् क्षुधित बुभुक्षित तरक्षु मृगादनो नाम भृगविशेष चमूरुत्तातिं हरिणसमूहमिव क्ष्वेलया सिंहनादेन लोलयाचते आकुलीकृतवान् । उपमालकार । यत्तु ‘तरक्षु सिंह’ इति नृसिंह , तन्न । ‘जठरज्वलनज्वलताप्यपगतशङ्क समागतापि पुर । करिणामरिणा हरिणा हरिणाली हन्यता तु कथम् ॥' इत्यादिना सिंहस्य हरिणवधोद्य ममात्रेऽपि लोकविद्योभयविरुद्धत्वात् ‘तरश्वस्तु मृगादन ’ इति व्याघ्रविशेषपर्यायत्वेन कोशदर्शनाच्चेति ॥


  1. ‘अस्य’ इति पाठे
  2. ‘अवतीर्णम्’ इति पाठ
  3. ‘तूर्णम्’ इति नास्ति कचित्
  4. ‘चिरम्’ इति पाठ
  5. ‘क्ष्वेडया’ इति पाठ