पृष्ठम्:चम्पूभारतम्.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०९
पञ्चम स्तबक ।


 नीत्वा किमद्य व[१] नसीम्नि सुदूरमेता-
  नत्रैव हन्मि सहसेति धियैव तिष्ठन्
 आलक्ष्यतायममरारिरनुष्णजङ्घो
  गन्तु पदात्पदमपि क्षितिपानुभावात् ॥ ४० ॥
मध्येमार्ग बनान्तान्मदगजगमने मारुतौ समुखेऽस्मि-
 न्सार्धं तेनाथ योद्घु धृतरभसमनास्तीव्रदर्पप्रसार ।
दैत्यस्थान्राजपुत्रान्क्षितितलमनयद्वाहुना स्कन्धमध्या-
 त्क्रोधान्धोऽरन्तिसीम्ना स पुनरनिलभूर्दारुण तस्य शीर्षम् ॥ ४१ ॥
 निपेतुषस्तस्य निकृत्तमूर्ध्रो नितान्तभारेण वनान्तभूमि ।
 निभ्नाभवद्दूरममुष्य सङ्गे निजै प्रतीकैरिव सकुचन्ती ॥ ४२ ॥


रलकारेण वस्तुध्वनि । ‘जटासुरोऽवो’ इत्यादृत्या अधो वनगमनानन्तर जटासुर तस्य धर्मसूनो जटासु विषये रुध्यतेऽनेनेति रोध निषेध कर्षकश्च अजनीति केचित् । अत्राप्यलङ्गारध्वनि पूर्ववत् ॥ ३९ ॥

 नीत्वेति । क्षितिपस्य धर्मराजस्य अनुभावात् माहात्म्यात् अतिभारात्मना परिणतात् । पदात्पदमेक निक्षिप्येत्यर्थ । पदमपर गन्तु निक्षेप्तु अनुष्णे मन्दीभूते जङ्घे यस्य सोऽय अमरारि जटासुर अद्य वनसीम्नि एतान् सुदूर बहुदूर नीत्वा प्रापस्य । कि कार्यमत्रैव देशे सहसा निहन्मीति धिया आलोचनेन तिष्ठन्निव । अलक्ष्यत ददृशे । तत्रत्यैरिति शेष । लक्षते कर्मणि लड्। उत्प्रेक्षा ॥ ४० ॥

 मध्य इति । अथ मध्येमार्ग मार्गमध्ये । वनान्तान्मदगजगमने अस्मिन् मास्तौ समुखे अभिमुखम् । आगते सतीत्यर्थ । तेन साधे मारुतिना सह योद्घु धृत रभस वेग हर्षो वा येन तादृश मनो यस्य स तीव्र तीक्ष्ण दर्पस्य अहकारस्य प्रसार स्फुरण यस्य स । दैत्य जटासुर । स्कन्धमध्यात् बाहुना तान् राजपुत्री च राजपुत्राश्च राजपुत्रान् द्रौपदीयुधिष्ठिरादीन् । क्षितितल भूमिं प्रति अनयत् प्रापयत् । स अनिलभू पुन भीमस्तु क्त्रोबान्ध क्रोधेन कलुष सन् । अरत्निसीम्रा निष्कनिष्ठमुष्टिघातेन दारुण भयकरं तस्य जटासुरस्य शीर्ष शिर क्षितितलमनयत् तच्छिरश्चिच्छेदेत्यर्थ । स्रग्धरा ॥ ४१ ॥

 निपेतुष इति । निकृत्त च्छिन्न मूर्धा शिर यस्य तस्य निपेतुष निपतत तस्य जटासुरस्य । तत्कायस्य सबन्धिनेति यावत् । नितान्तेन अतिमहता भारेण बनातभूमि निजै प्रतीकै अवयवै अमुष्य जटासुरस्य पापिन सङ्गे स्पर्शे विषये सकुचन्ती जुगुप्समानेवेत्युत्प्रेक्षा । दूर बहु निम्ना निमग्ना अभवत् ॥ ४२ ॥


  1. ‘ सीमनि दूरम्' इति पाठ