कक्षानिवेशितगद् स विगाह्य तोय |
तदात्व एव तद्रक्षिण ‘कस्त्व रे'[१] जाल्म, आयुरग्रमिमारुरुक्षसि’ इति समन्ततो निरुन्धानानन्वर्थ[२]तवालम्बकतया लोहि[३]तायिताना लोचनाना प्रतिबिम्बैस्ता सरसीं पुनरपि सौगन्धिकान्तर्वत्नीमिव कुर्वत क्रोधवशान्नाम यातुधानान्स भीमो रहसा समुपबृहितसिहनादश्चि[४]रमुपोषितस्य परिघस्य पारणा परिकल्पयाचक्रे ॥
रक्ष सृता रक्तनदी महाद्रेर्विष्वक्पतन्ती वियति स्थितानाम् । |
भयात् अपगते पलायिते सति । कक्षे बाहुमूले निवेशिता विन्यस्ता गदा येन तथोक्त सन् । तोय सौगन्धिकदीधिकाजल विगाह्य प्रविश्य मूलानि विकसि तानि अखिलानि नि शेषाणि हल्लकाना रत्ताब्जाना कुलानि पुजान् अलावीत् अपचितवान् । लुनाते कर्तरि लुड् । अत्रोत्प्रक्षया कुबेरस्य भाविपराभवस्य प्रतीतेरलकारेण वस्तुवनि ॥ ३४ ॥
तदात्व इति । 'तदात्वस्तु तदाकाल' इत्यमर । तस्या कह्लारसरस्या रक्षिण पालयितृन् । अत एव रे जाल्म क आयुष अग्रभूमिं आरुरुक्षसि आरोढुमिच्छसि।इति। उक्त्वति शेष । समन्तत खस्य परितो निरुन्धानान् निरोध कुर्वाणान् अन्वर्थताया क्रोववशेति नान्नोऽवयवार्थत्वस्य । कोपपराधीनत्वस्येति यावत् । अवलम्बकतया स्वीकारेणेवेति गम्योत्प्रेक्षा । लोहितायिताना अरुणी भूताना लोचनाना प्रतिबिम्बै तामपचितहल्लका सरसी पुनरपि सौगन्धिकै रक्ताब्जै अन्तर्वत्नी सगर्भा तत्पूर्णामिवेति यावदित्युत्प्रेक्षा । कुर्वत क्त्रोध वशान्नाम यातुधानान् रक्षोविशेषान् स भीम रहसा वेगेन समुपबृहित वर्धित सिहनाद येन तयोत सन् चिरमुपोषितस्य वधपारणारहितस्य परिघस्य गदया पारण उपवासानन्तरभोजन परिकल्पयाचक्रे। अवधीदित्यर्थ । गम्यवाच्योप्रेक्षयोरङ्गाङ्गाङ्गिभावेन सकर ॥
रक्ष इति । रक्षोभ्य क्रोधवशेभ्य सृता महाद्रे गन्धमादनस्य विष्वक् परित पतन्ती प्रवहन्ती रक्तनदी शोणितप्रवाह वियति आकाशे स्थिताना देवादीना क्षरन्त स्यन्दमान तटीषु प्रपातेषु धातब गैरिकादीनि यस्या तथोक्ता झरी निझर इति बुद्धे भ्रमात्मिकाया करावलम्ब सुखग्राइत्व कलयाचकार घटयति स्म । निर्झरभ्रम जनयामासेत्यर्थ । अतएव भ्रान्तिमद- लकार ॥ ३२ ॥