पृष्ठम्:चम्पूभारतम्.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०१
पञ्चम स्तबक ।


 क्रौ[१]र्यस्पृशा तदनु कौरवसार्वभौम-
  [२]वाग्रूपया सपदि मारुतनन्दनस्य ।
 दृग्द्वारपक्ष्मपुटयुग्मक[३]वाटकूट-
  निद्रार्गलाहरणकुञ्चिकया व[४]भूवे ॥ २१ ॥
गिरा किचिदुदीक्ष्य तस्य लाङ्गूलमात्रे तरल कपीन्द्र ।
कोपारुणाक्ष कुरुसिहमेन स्पारुणाक्ष स्वयमेवमूचे [५]॥ २२ ॥
भद्र स्वस्त्यस्तु तुभ्य चिरमिह [६]जरया निद्रयाप्यातुरोऽह
 प्रत्युत्थानादिकर्मण्यपटुरवयवैरस्मि तस्मात्त्वमेव ।
जात्यावस्थानरीत्यापि च व्रिपिनपथे प्राप्ततिर्यक्त्व[७]मेन
 बालाग्रे मा बिकृष्य द्रुत[८]मभिलषितप्राप्तये साधयेति[९] ॥ २३ ॥


णस्य तादृशस्य मम भवान् कियानित्यभिप्रायगर्भत्वात्परिकरालकार । स चोद्यद्रद त्वेन उधदायुधत्वोद्यद्रोगत्वयो श्लेषभित्तिकया भेदाध्यवसितेन भुजातन्वोरौपम्यस्य गम्यत्वात्तुल्ययोगिताभेदस्योज्जीवक इति द्वयोरङ्गाङ्गिभावेन सकर ॥ २० ॥

 क्रौर्यस्पृशेति । तदनु क्रौर्यस्पृशा वक्रिमस्पृशा कौरवसार्वभौमस्य भीमस्य वाग्रूपया मारुतनन्दनस्य हनूमत दृग्द्वारस्य नेत्रद्वारस्य पक्ष्मपुटयुग्ममेव कबाट कूट तस्य निदैव अर्गला तदाहरणकुञ्चिकया कवाटोद्धाटनशलाकिकया बभूवे भूतम् । भवतेर्भावे लिट्। भीमस्य गर्वोक्ति हनूमतो निद्रा निराकरोदिति भाव ॥ २१ ॥

 इत्थमिति । इत्थ उक्तप्रकारया तस्य भीमस्य गिरा वाचा लाङ्गूलमात्रे पुच्छ एव । न तु देहे न वा मनसीत्यर्थ । तरल चञ्चल । प्रबोधसूचनायेति भाव ॥ स्वय स्वापेन समाधिनिद्रया । न तु कोपेनेत्यर्थ । अरुणे अक्षिणी यस्य तथोक्त कपीन्द्रो हनूमान् कोपेन अरुणाक्ष एन कुरुसिंह किचिदुदीक्ष्य दृष्ट्वा एव वक्ष्यमाणप्रकारेण ऊचे उक्तवान् ॥ २२ ॥

 भद्रेति । हे भद्र। शुभशीलेति हासोक्ति । तुभ्य खस्ति शुभमस्तु । चिर बहुकालिक्रया जरया चरमवयसा निद्रयापि आतुर रुग्ण अतएवाह इह इदानीं अत्र वा प्रत्युत्थानादौ कर्मणि अर्हणे अवयवै करचरणादिभि अपटु अशक्तो sस्मि । यत तस्मात् त्वमेव जात्या जन्मना अवस्थानरीत्या स्थितिविधयापि च


  1. भय श्लोक कचित्र दृश्यते
  2. 'वाचा तया’ इति पाठ
  3. 'कपाट' इति पाठ
  4. ‘बभूव’ इति पाठ
  5. एतदनन्तरम्--
    ‘आ बालधेररिमहागृहदाहशौण्डादा चौषधाचलधृतिस्थपुटात्किरीटात् ।
    अङ्गेष्वजातचलनोऽप्यखिलेषु भीममालोक्य मन्दमधरोष्ठपुटे चकम्पे ।'
    इति श्लोक कचिद्दृश्यते
  6. ‘जरसा' इति पाठ
  7. ‘एवम्’ इति पाठ
  8. ‘अभिलषित प्रार्थये’ इति पाठ
  9. एतदनतरम्--