पृष्ठम्:चम्पूभारतम्.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२००
चम्पूभारते


 क्षिप्त विलञ्चय गिरिशैवलिनीवनानि
  गच्छन्नसौ पथि ददर्श कपि महान्तम् ।
 दृग्भ्यामवन्तमरि[१]पट्टणदाहकाले
  निद्रा भया[२]दुपगतामिव कुम्भकर्णात् ॥ १८ ॥
[३]पिकुञ्जर सुकृतपुञ्जमजञ्जनापवमानयोरचलमानमध्वनि ।
विषय ध्शोरथ पुरो वृकोदर स चकार साधु विहिताक्षिमीलनम् १९
अभीरसौ गभीरमभाणीञ्च ॥
 कस्त्व निरुध्य पदवीमविनीतबुद्धे
  निद्रास्यपेहि न सहे गमने विलम्बम् ।
 क्रोधो भुजामिव ममाद्य हिडिम्बहन्तु-
  रुद्यद्रदा तव तनूमपि मूढ कुर्यात् ॥ २० ॥


 क्षिप्रमिति । असौ भीम गिरीन् शैवलिनी नदी वनानि च क्षिप्र विलज्य गच्छन्' सन् अरे रावणस्य पट्टणस्य लङ्काया दाहकाले कुम्भकर्णात् । त त्यक्ज्ञा इति ल्यब्लोपे पञ्चमी । भयादुपगता दाहो मे मा भूदिति शरण प्राप्ता मिव स्थिता निद्रा दृग्भ्या नेवाभ्या अवन्त रक्षन्तम् । निद्रायमाणमित्यर्थ । महान्त शौर्यधैर्यादिभि लोकोत्तर कपिं आञ्जनेय पथि मार्गे ददर्श ॥ १८ ॥

 उक्तमेवार्थ भङ्गयन्तरेणाह कपिकुञ्जरमिति । अथ दूरतो दर्शनानन्तर स वृकोदरो भीम अञ्जनापवमानयो सुकृतपुञ्ज पुण्यराशिं साधु यथा तथा विहित अक्ष्णोर्मीलन येन त केवल प्रत्यकू दृष्टया । श्रीरामध्यानपरमिति यावत्। अत एव अचलमान निश्चलम् , यद्वा अचल मान चित्तसमुन्नति यस्य तम्, अथवा अचलमान पर्वतप्रमाणमिति वा । कपिकुञ्जर हनुमन्त अध्वनि मार्गे पुर पुर प्रदेशे दृशो नेत्रयो विषय चकार । अपदयादित्यर्थ ॥ १९ ॥

 अभीरिति । किचेति चार्थे । असौ भीम अभी अदृष्टचरसत्त्वदर्शनेऽपि गतभी सन् गभीर निष्टुर यथा तथा अभाणीत वदति स्म ॥

उक्तप्रकारमेवाह--क इति । हे अविनीतबुद्धे आयैरशिक्षितबुद्धे । मध्येमार्ग शयनस्य गर्ह्यत्वादिति भाव । त्व क पदवी मार्ग निरुध्य निद्रासि । अपेहि अन्यतो गच्छ । गमने विलम्ब न सहे । हिडिम्ब हन्तीति हिडिम्बहन्तु मम क्रोध मार्गनिरोधजन्य भुजा मद्वाहुमिव । हे मूढ, तव तन् शरीरमपि उद्यन्ती उन्नमन्ती गदा आयुध यस्या तथोक्ता उत्पद्यमनरोगा च कुर्यात् । ‘गदो भ्रातरि विष्णो स्यात् आमये चायुधे गदा’ इति विश्व । अत्र हिडिम्बहन्तुरिति विशेष-


  1. ‘पत्तन' इति पाठ
  2. ‘उपनताम्’ इति पाठ
  3. अय श्लोक कचिन्न दृश्यते