पृष्ठम्:चम्पूभारतम्.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९९
पञ्चम स्तबक ।

विलोफ़नैर्विश्रमशाखिभिस्तयोर्भवाध्वगानाम[१]वधूनितकल्म ।
निवासमालम्ब्य तपोवने तदा विवासदु खाद्विरराम पार्थिव ॥ १७ ॥

 एकदा तत्र स्नुषावत्सलतयेव मारुतेन पुरतो नीत[२]मटवीपर्यटनखेदसपदामसासहिमन्धकरणमलिकुलचेत[३]सामासेचनकमक्ष्णा कमपि कल्हारमुकुलमादाय ‘क लभ्येत पुनरेतादृशम्’ इति कुतुकहर्षाभ्या सूचिततर्षया पार्षत्या रहसि याचित पार्षदश्वि क्षण विचिन्त्य तद्विचिचीषया दिशमुदीचीं प्रतस्थे ॥


 विलोकनैरिति । तदा प्रणामममये पाथिव बर्मराज भव ससार एव अध्वा मार्ग तस्मिन् गच्छन्तीति भवाध्वगाना देहिना विश्रमशाखिभि छायायूक्षै । ससारदु खहारिभिरिति यावत् । तयो नरनारायणयो विलोकनै वीक्षणै अवधूनित निरस्त क्लम वनवासादिदु खयास यस्य तथोक्त सन् । तपोवने बदरिकावने निवास आलम्ब्य स्वीकृत्य विवासेन राज्यभ्रशेन यद्दु ख तस्मात् विरराम । तद्दु ख तयाजेत्यर्थ ।‘जुगुप्साविराम ' इत्यादिनापादानत्वम् । हेतुरलकार । वशस्थम् ॥ १७ ॥

 एकदेति । तत्र बदरिकावने एकदा कदाचित् मारुतेन स्रुषाया पुत्रपत्र्यां वत्सलतया प्रेम्णेवेत्युत्प्रेक्षा । पुरत अग्रदेश प्रति नीत प्रापित अटव्या पर्यटनेन सचारेण या खेदसपद श्रमसमृद्धय तासा असासहिं असहमानम् । तन्नाशकमिति यावत् । ‘सासहिवावहि- इत्यादिना यड्लुगन्तात्किप्प्रत्यय । अलिकुलस्य चेतसा मनसा अन्धकरण अतिमोहनम् ।‘आढ्यसुभग-' इत्यादिना ख्युनि खित्वात् ‘अरुदूषत्-' इत्यादिना मुम् । अक्ष्णा नेक्षणां आसेचनकम् । ‘तदासे चनक तृतेर्नास्त्यन्तो यस्य दर्शनात्' इत्यमर । विगलितवेधान्तरत्वेन दर्शनीयमित्यर्थ । कमपि सौरभ्यसौन्दर्याभ्या अनिर्वाच्यमहिमान कहारमुकुल रक्ताब्जकोश आदाय एतादृश अन्यत् पुन क्क कुत्र लभ्येत प्राध्येत इत्युक्तप्रकारेण हर्षेण सूचित ज्ञापित तर्ष कहारमुकुले अभिलाष यस्यास्तया पार्षत्या द्रौपद्या रहसि याचित एतादृश पुन अन्यदादाय दीयतामिति प्राथित । पृषदश्वस्य बायो अपत्य पार्षदवि भीम क्षण विचिन्त्य कुनैमानि भवेयुरित्यालोच्य तेष विचेतु अन्वेष्टु इच्छया विचिचीषया उदीची दिश उत्तरा प्रति प्रतस्थे । सौरभानुसारेणेति भाव ॥


  1. ‘परिधूनितश्रम ’ इति पाठ
  2. ‘नीतमससइिमटवी’ इति पाठ
  3. ‘असासङि’ इति नास्ति कचित्