पृष्ठम्:चम्पूभारतम्.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९०
चम्पूभारते

सयितुमवतरद्भिरुडुनिकरैरिव सुरतरुकुसु[१]मवर्षैरवकीर्यमाणम् , जटाभस्मकुशचीरधारिभिस्तैरेव चतुर्भिराम्नायपुरुषै परिपठयमानशतरुद्रीयविरुदप्रबन्धम्, अम्बरे सविवमवलम्बमानैस्तु[२]म्बुरुप्रभृतिभि सुर[३]वैणिकैरुपवीण्यमानभक्तजनर[४]क्षणापदानप्रकरणम्, कर्णपूरीकृततमालमञ्जरीम[५]धुमिपेण कटाक्षात्साक्षात्कृपामिव वर्षन्तम , प्रज्वलद्भि परिष्कारपन्नगफणारत्नैर्नूत्नै शरव्र[६]णरिवानुरज्यमानावयवम्, अवतसशशिकलापरिगलित[७]किरणधारापातशीता[८]सहिष्णुतयेव दन्तपटगर्भवर्तिना स्मितेन सूचितहृदयप्रसादम् , भगवन्त महादेवमुद्वीक्ष्य [९]पक्ष्मतटरुहविटपिसमुत्पाटनपटुभि प्रमोदाश्रुपूरैर्नदीमातृकायमा-


शिाखाचद्र आश्वासयितु अवतरद्भि प्राप्नुवद्भि उड़ना नक्षत्राणा निकरैरिव स्थितै सुरतरुकुसुमाना वष अवकीर्यमाण व्याप्यमानम् । जटा भस्म कुशा चाराणि च धरन्तीति तद्धरे ते कैरातेश्वररूपधारिभिरेव चतुभि आम्नायपुरुषै वेदपुरुषै परित पठयमान कीर्त्यमान शतरुद्रीय रुद्राध्याय एव बिरुदप्रबन्ध यस्य तथोक्तम् । सविव समीप यथातथा अम्परे आकाशे अवलम्बमाने अवतरद्भि तुम्वुरु प्रभृति आदि येषा तै सराणा वणिकै वीणाशिल्पै गन्ववे उपवीण्यमानानि वीणाभिर्गीयमानानि भक्ताना जनाना मार्कण्डेयादीना रक्षणात्मक यत् अपदान प्राक्तनचारित्र तस्य प्रकरणानि ‘नाटक च प्रकरणम्' इत्यादिना प्रसिद्ध दशरूपफन्यतमानि यस्य तयोक्तम्। कर्णपूरीकृताया कर्णावतसीकृताया तमाल मञ्जर्या तापिच्छगुच्छस्य मधुन मकरन्दस्य मिषेण साक्षात् मूर्तिभूतामिव स्थिता कृपा कटाक्षात् वर्षन्तम् । प्रज्वलद्भि प्रकाशमानै अत एव नूत्नै शरव्रणैरिव स्थिते परिष्कारपन्नगाना भूषणीभूतसर्पाणा फणासु रत्नै अनुरज्यमाना शोणायमाना. अवयवा यस्य तम् । अवतसशशिकलाया शिरोभूषणचन्द्रखण्डात् परिगलितानां प्रसृताना तया तत्सहृनाशक्त्येवेत्युप्रेक्षा । दन्ताना इति वतिना स्मितेन । तन्मिषेणेत्यर्थ । सूचित ज्ञापित हृदये मनसि प्रसाद अनुग्रह एव नैर्मल्य यस्य तम् । भगवन्त महादेव उद्वीक्ष्य पक्ष्मणोरेव तटयो रुहन्ति जायन्त इति तेषा निमेषाणामेव विटपिना वृक्षाणा समुत्पाटने पटुभि निर्निमेषीकरणसमयैरित्यथ । प्रमोदाश्रुपूरै आनन्दबाष्पप्रवाहै नदीमातृकायमा


  1. निकरै ’ इति पाठ
  2. भसित’ इति पाठ
  3. ‘तुम्बरु' इति पाठ
  4. 'रक्षा' इति पाठ
  5. ‘मधुझरीमिषेण’ इति पाठ
  6. ‘अनुबध्यमानावयवमास भ्नावतसितशशि’ इति पाठ
  7. ‘गलित’ इति पाठ
  8. ‘सहिष्णुनेबपाठ इति पाठ
  9. ‘तटरुहनिमेषविटपि’ इति पाठ