पृष्ठम्:चम्पूभारतम्.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८९
चतुर्थः स्तबकः ।


 तथाविध एवासौ चिरा[१]दाचरितचेतनाखागताचार श[२]नैरुत्थाय पुरतो [३]घण्टाघणघणात्कारसहचरेण कण्ठगर्जितेन कर्णयो [४]कल्पितसुधारसमोक्षे महोक्षे निषेदिवासम् , भुजमूलप्रसारितगिरिजापाणियु[५]गलनखराङ्लुरधोरणीद्विगुणीकृतहारमणिरमणीयवक्षसम् , पारिषदगणाञ्जलिकमलवनमध्यराजहसायमानम्, मार्दवभरितशार्दूलचर्मनिर्मित[६]पल्ययनपर्यङ्कोपरिभागतिर्यगर्पित[७]चरणपल्लवसवाहनपरेण शिलादकुमारेण च [८]दपैदुर्ललननिवारणाय [९]मुखबन्धनकशृङ्खलेन निरुध्य मुहुर्मुहु करपुटास्फालितककुदशृङ्गेण [१०]भृङ्गिणा च लक्ष्यमाणोभयपक्षभागम्, गाण्डीवदण्डताडनप[११]रिपीडितचूडाशशिनमाश्वा-


अत्र युद्धे तादृग्भुजवीर्यविलोकनजनितविस्मयस्य विशेषणगत्या तथाविवाशिर क- भ्पनहेतुत्वात्काव्यलिङ्गभेद ॥ ९४ ॥

 तथाविध इति । तथाविध अवाझुख पतित एवासौ अजुन चिरादाचरित कृत चेतनाया सज्ञाया स्वागताचार सुखागमनक्त्रियायास्मिस्तथोक्त सन् । शनै उत्थाय पुरत अग्रे घण्टाना ग्रेवेयाणा घणघणात्कारस्य सहचरेण मित्रेण । तन्मिश्रितेनेति यावत् । कण्ठस्य गजितेन हुकाररवेण कर्णयो कल्पित सुधारसस्य अमृतस्य मोक्ष वर्षे येन तस्मिन् महोक्षे वृषभराजे निषेदिवास आसीनम् । भुजयो र्मूलाभ्या कक्षाभ्या प्रसारितस्य गिरिजाया पार्वत्या पाणियुगलस्य नखराङ्कुराणा धोरण्या पङ्क्तया द्विगुणीकृतै हारमणिभि मौक्तिकै रमणीय वक्ष यस्य तथोक्तम् पारिषदाना गणस्य प्रमथसमूहस्य अञ्जलीनामेव कमलाना वनस्य मध्ये राजहसवदाचरन्त राजहसायमानम् । क्यजन्तापल्लट शानचू । मार्दवभरितेन अतिमृदुना शार्दूलचर्मणा निर्मितस्य पल्ययनस्य वाहनपृष्ठास्तरणस्यैव पर्यङ्कस्य शयनस्य उपरिभागे । ‘पल्ययनपल्लव-' इति पाठे पल्ययन पल्लवमिवेत्युपमितसमास । तिर्यगर्पितस्य न्यतस्य चरण पल्लव इव तस्य सवाहने मृदुमर्दने परेण व्यापृतेन शिलादकुमारेण नन्दिकेश्वरेण च। दर्पात् दुर्ललनस्य उत्पल्वनस्य निवारणाय मुखे वक्रे बध्रारतीति बन्धनेन कनकमयेन श्र्ङ्खलेन खलीनेन निरुध्य मुहुर्मुहु करपुटेन पुटीकृतहस्तेन आस्फालित आश्वासार्थ परामृष्ट ककुदस्य शृङ्ग उपरिभाग येन तेन भृङ्गिणा प्रमथविशेषेण च । द्वाभ्या लक्ष्यमाणौ उभौ पक्षभागौ पार्श्वदेशौ यस्य त लक्ष्यमाणोभयपक्षभागम् । गाण्डीवदण्डताडनेन परिपीडित चूड़ाया शशिन


  1. ‘चेतनाचरित , 'आपतितचेतना’ इति पाठ
  2. ‘शनै शनै ’ इति पाठ
  3. ‘घण्टभरणघणघणात्करण’ इति पाठ
  4. ‘परिकल्पित’ इति पाठ
  5. ‘युगनखरेखाङ्कुर’ इति पाठ
  6. ‘पल्ययनाङ्कोपरि’ इति पाठ
  7. ‘एकचरण’ इति पाठ
  8. ‘दर्पसमुल्ल्लन’ इति पाठ
  9. ‘सुखबद्धकनकशृङ्खले’ इति पाठ .
  10. ‘भृङ्गिरिट्नाि’ इति पाठ
  11. ‘पीडितम्' इति पाठ