पृष्ठम्:चम्पूभारतम्.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
चम्पूभारते


भागौ, दीपकमृगायमाणनिजहरिणशाव[१]कदाचिदपि ’ इति नास्ति कचिव,कदाचिदप्यदृष्टपूर्वौ वनमस्मदीयमा'[२]क्रमेते इति रोषकषायिततया निवारयितुकामैरपि तेजोविशे[३]षेण प्रतिहतोत्साहै[४]रन्यै शबरयुवभि केवलम[५]वलोक्यमानौ, जटावल्लरीमूलप[६]ल्लवमुकुलीभवदञ्जलिभिस्तपस्विपुजैर्नभसि विमानवेग निरुध्य हर्षाश्रुभि[७]र्मरुद्भिश्चाभिवर्ष्यमाणजयशब्दौ, तौ जगदादिमौ दपती स[८]नियममुपासीनस्य शुनासीरसुतस्य तपोवनसीमान शनै शनैरासीदताम्।


इति हलायुध । स चासौ निजहरिणशावक करभूषणकुरङ्गशिशु तस्य पाष्णि भाग पश्चात्खुरट्टुदेश अनुसृत्य बावन सबरगमन ययोस्तौ। ‘अनुधाव्यमान पार्ष्णिभागौ’ इति पाठस्तु मृगयासप्रदायविरुद्धत्वादुपेक्ष्य । भाविनि भविष्यति पदे पदे प्रतिपादविन्यासस्थान वनदेवताभि अर्प्यमाण न्यस्यमान सुरतरु प्रसवै कल्पवृक्षकुसुमै आस्तरण यस्मिन् तथोक्तेन अतएव प्रशमित निरस्त तुहिनजडिम्ना हिमशैत्येन उद्वेग पीडा- यस्मिस्तेन हिमवतो गिरे कटकपथेन नितम्बदेशमार्गेण सविळास यथा तथा सन्चरमाणौ । पूर्वं कदाचिदप्यडष्टौ अदृष्टपूवौ एतौ किरातदम्पती कौ कुत्रत्यौ । कि च अस्मदीय वन आक्रमेते आगच्छेते इति उक्तप्रकारेण रोषेण कषायिततया कलुषितत्वेन हेतुना निवारयितु वनान्नि सारयितु कामो येषा तथोकैरपि तेजोविशेषेण दुर्निरीक्ष्यप्रकाशेन प्रतिहत भज्न उत्साह निवारणोद्यो– यैषा तै अन्यै बास्तवै शबरयुवभि किरातदपतीभि केवल भृशमवलोक्यमानौ । भयादाश्चर्यान्निवारणाशक्तेश्चेति भाव । जटा एव वर्ल्ल लता तासा मूले पल्लवमुकुल किसलयद्वयसपुटमिव सपद्यमान मुकुलीभवन् अञ्जलि येषा तै । मस्तकन्यस्ताञ्जलिभिरित्यर्थ । ‘तौ युतावञ्जलि पुमान्' इत्यमरः । तपस्विना मुनीना पुञ्जै । भुवि इति शेष । नभसि विमानवेग निरुध्य मरुद्भिर्देवैश्च उभयत्रोभयैर्हर्षाश्रुभि सम आनन्दबाष्पै सह अभिवर्यमाणा उदीर्यमाण पात्यमानाश्च जयस्य शब्दा ‘जय विजयी


  1. ‘शावकानुधाव्यमानषार्ष्णिभागौ प्रशमिततुहिनजडिमोदूगेन भाविनि पदे पदे बनदेवताभी रच्यमानतरूप्रसवास्तरणेन हिमवत ’ इति पाठ
  2. आत्रक्मत ’ इति पाठ
  3. विशेषप्रति’ इति पाठ
  4. ‘आरण्यैरन्यै’ इति पाठ
  5. ‘आलोक्यमानौ’ इति पाठ
  6. ‘पल्लव’ इति नास्ति कचित्
  7. ‘सममभिवृष्यमाण’ इति पाठ
  8. ‘सविनयम्’ इति पाठ .