पृष्ठम्:चम्पूभारतम्.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
प्रथम स्तबक।


 [१]दनन्तरमसौ परतप समन्तत शकुन्तरवनिरन्तरदिगन्तरादखिलमृगकुलशरण्यादरण्यादुत्प्लवमानस्य कस्यचिदनुप्लवनम[२]न्दीभूतजवचमूरोश्चमूरो सरणिमनुसरमाणस्तदीयतनूरुहचित्रबिन्दुनिकरैरिव ग[३]गनमुत्पतद्भि खुररजोभिरनुसीयमानतुरगगति सु[४]दूरमनु[५] पपात।

तत्र ताव[६] त्कस्मिश्चिल्लतानुल्मपरिसरे स नरनाथ परिकथिततरुणिमप्रथितकलेवरमशिथिलरतिसुखसनाथ हरिणमिथुन नयनपथस्यातिथीचकार।

तिम्मेन बाणेन जघान तस्मिन्युग्मे[७] नराणामचिप पुमासम्।


 तदिति। तस्माच्छ्रमापनोदादनन्तरं पर शत्रु तपतीति परतप। 'द्विषत्परयोस्तापे' इति खित्वात्खशि नुम्। असौ पाण्डु शकुन्ताना पक्षिणा रवैर्निरन्तराणि सान्द्राणि दिशामन्तरणि यस्मिस्तस्मात्। 'शकुन्तपक्षिशकुनि' इत्यमर। अखिलाना मृगाणा कुलस्य शरण्यात् निवासजीवनदानादिना रक्षकात्। 'तत्र साधु' इति यत्। अरण्यात् हिमवद्वनादुत्प्लवमानस्य धावतोऽनुप्लवनेन। अनुधावनश्रमेणेत्यर्थ मन्दीभूतौ स्तम्भितौ जवचम्वा सेनाया ऊरू यस्य तस्य कस्यचिच्चमूरोर्हरिणविशेषस्य सरणिं मार्गमनुसरमाण सन्। तस्येमानि तदियानि यानि तनूरुहाणि लोभानि तत्सबन्विना चित्रबिन्दूना शबलवर्णलोमसस्थानविशे षाणा निकरै पुज्जैरिव स्थितैर्गगनमुत्पतद्भि खुराणा शफाना सबन्धिभी रजोमि पार्वतीयधातुधूलिभिरनुमीयमाना तर्क्यमाणा तुरगस्य गतिर्गमन यस्य तथोक्त सन् सुदूरमनुपपात गतवान्। अनुपूर्वात्पत्तते कर्तरि लिट् ॥

 तत्रेति। तत्र स्रुदूरदेशे। तावदिति वाक्यालकारे। कस्मिश्चित् लतागुल्मस्य निकुञ्जस्य परिसरे समीपे स नरनाथ पाण्डु परिकथितेन परिदृश्यमानेन तरुणि म्ना यौवनेन प्रथित प्रसिद्ध कलेवर् यस्य तथोक्तम्। अशिथिलेन सान्द्रेण रतिसु खेन सनाथ सगत हरिणी च हरिणक्ष्च तयोर्मिथुन द्वन्द्व नयनपथस्य नेत्रमार्गस्य अतिथीचकार विषयीकृतवान्। हरिणद्वन्द्व दृष्टवानित्यर्थ ॥

 तिग्मेनेति। नराणामविप पाण्डु तस्मिन्युग्मे हरिणमिथुने पुमास मृग तिग्मेन तीक्ष्णेन बाणेन जघान हतवान्। असौ बाणानिहतो वातायुर्मृग। 'मृगे कुराङ्गवातायुहरिणा' इत्यमर। जात आयुषो जीवितकालस्य अन्त समाप्ति यस्य तथोक्त सन् महर्षे किंदमनामधेयस्याकार तत्स्वरूप सहसा तत्क्षणमेव


  1. 'तत्' इति नास्ति क्कचित्
  2. 'मन्दितजवि' इति पाठ
  3. 'रुचिरैर्गगन समुत्भतद्भि' इति पाठ
  4. 'दूरम्' इति पाठ
  5. 'अतिपपात' इति पाठ
  6. 'कचन' इति पाठ
  7. 'प्रथिम' इति पाठ