पृष्ठम्:चम्पूभारतम्.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२
चम्पूभारते


यो वत्सतामेत्य वसुधराया नि[१]पीय रत्नावलिकान्तिपूरान्।
मन शिलावप्रझरीमिषेण दरीमुखैरुद्भिरतीव [२]तृप्त ॥ ५७ ॥
आरोहतस्त तरसा समीरकिशोरक स्वेदजलाणुराजिम् ।
निपीय तस्याननपद्ममा[३]ध्वीं द्विरेफभाव प्रकटीचकार ॥ ५८ ॥
 शिवाख्ययोरेकतनुत्वकारण
  त्रिलोकपित्रोर्महसोस्तपोवनम् ।
 मिथोऽर्च्यमान मिथुनैस्तपस्विना
  तथेच्छुभिस्तत्र ननाम पाण्डव ॥ ५९ ॥


थोक्तम् । मितनखे च' इति पचे खशि खित्वात् ‘अरुद्विषत्-' इत्यादिना मुम्। उरोज कुच अङ्गमेव अतितरा उपास्ते सेवते । शीतबाधाविधूननायेति भाव अत्र नखपचौष्ण्यस्य विशेषणगत्या कुचसेवनहेतुत्वात् पदार्थहेतुक काव्य लिङ्गम् ॥ ५६ ॥

 य इति । यो हिमशैल वत्सता गोशिशुत्व एत्य स्वीकृत्य वसुवराया भूमे गोरूपधराया रत्नावलीना कान्तिपूरान् प्रभाप्रवाहान् भीरात्मकान् निपीय तृप्त सन् दर्य गुहा एव मुखानि तै मन शिला नाम वातु तन्मयीना वप्रझरीणा निर्झ राणा मिषेण व्याजेन उद्भिरतिवद्भण्डेन, परा .वेने राजनि राज दोषादन्तर्धानिताखिलजीवनैषधा ऋषिभि शस्त्र वेन तद्वजमन्थनेन नितात्पृ थोभयत्रस्ता गोरूपधरा भुव शैला हिमवन्त वत्स मेरु दोग्धार च कृ रत्ना- योषधीश्च दुद्रुह्ड" खजीवनसारानिति पौराणिकथात्रामुधेथा ॥ ५७ ॥

 आरो हत इति । “त उक्तविशेषणविशिष्ट हिमशेल आरोहत तस्य अर्जु नस्य खेदजलस्य 'अणूना बिन्दूना राजिमेव आननस्यैव पद्मस्य माध्वी मकरन्न इति व्यस्तरूपकम् । वरसा द्रुत निपीय पीत्वा । अपहृत्येति यावत् । समीरकि शोरक तरुणमारुत झिरेफभाव भ्रमरत्वम् । भ्रमरस्येव रेफद्वथवत्पटवाच्यत्वमिति यावत् । समीरक्रिशोरक इति शब्दस्य रेफद्वयवत्वादिति भाव । प्रकटीचकार स्फुटीकृतवान् ॥ ५८ ॥

 शिवेति । तत्र हिमशैले पाण्डव अजुन अयाणा लोकाना पित्रो जननी जनकयो शिवेति शिव इति च आख्या ययोस्तयो महसो तेजसो एका तनु ययो तयोर्भाव एकतनुत्व तस्य कारणम् । तप सिद्धिजनकत्वेनेति भाव । अतएव तथा शिवयोरिवात्मनोरपि तदेझतनुत्व भूयादितीच्छा येषा तै । तप खिन्यश्च तपस्विनश्च तपस्विन तेषा मिथुनै स्त्रीपुसै मिय रहसि अर्च्यमानं पूज्यमान तपोवन शिवाश्रमवन ननाम नमस्कृतवान् । हेतुरलकार । वशस्थ वृत्तम् ॥ ५९ ॥


  1. ‘निपीत’ इति पाठ
  2. ‘नृप्त्या’ इति पाठ
  3. ‘माध्वी’ इति पाठ