पृष्ठम्:चम्पूभारतम्.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७१
चतुर्थ स्तबक ।

 प्रसृमरतनुभासा प्रावृषेण्यान्स मेघा-
  न्दिशि दिशि विदधानो दीर्घदर्शी तदानीम् ।
 कुरव इति महान्त शब्दमाबिभ्रतोऽपि
  स्ववचननिपुणिम्ना तानशोकानकार्षीत् ॥ ५४ ॥
 [१]तस्मात्प्रतिश्रुतिरिति प्रतिपद्य विद्या-
  मालिङ्गय धर्मतनयेन विसृज्यमान ।
 पाथों हेिमाचलमगात्परमास्त्रमाप्तु
  शभो कृपाजलनिधेश्चरणार्चनाभि ॥ ५५ ॥
यस्मिन्हिमानीभृति यक्षवृन्दमङ्गेषु सर्वेष्वपि म ञ्जुलेषु ।
नखपचोष्ण नलिनेक्षणानासुरोजमेवातितरामुपास्ते ॥ ५६ ॥


 प्रसृमरेति । प्रद्युमरया परितो व्याप्नुबन्त्या तनो शरीरस्य भासा नीलकान्त्या प्रावृषि वर्षर्तौ जातान् प्रावृषेण्यान् । ‘प्रावृष एण्य ’ इत्येण्यप्रत्यय । मेधान् दिशि दिशि प्रतिदिशम् । वीप्साया द्विर्भाव । विदवान सपादयन् दीर्घ कालत्रयेऽपि निरपाय पश्यति आलोचयतीति दीर्घदर्शी स व्यास । कुत्सित यथा तथा रुवन्ति शब्दायन्त इति कुरव इति हेतो । कुरुत्वादिति यावत् । मृगय्वादित्वात्कु । गणपाठादन्तलोपो निपात्यते । महान्त शब्द रोदन कुरवेति सज्ञापद च आबिभ्रत वाचकत्वेन स्वीकुर्वतोऽपीति विरोध । दधानानपीत्याभास । तान् पाण्डवान् वृक्षविशेषाश्च । खस्य स्वीयस्य वचनस्य वाक्यस्य का भूम्या सह रुदन्ति क्षान्त्या स्थैर्येण वा गर्जन्ति’ इति व्युत्पत्त्या भूसदृशक्षमावन्त तादृशस्थैर्यवन्तो वेति विवरणात्मकस्य ‘विपदि धैर्य- इत्याद्यापद्धर्मबोधकस्य च निपुणिन्ना कौशल्येन । पृथ्वादित्वादिमनिच् । अशोकान् शोकरहितान् तन्नामकम् क्षाश्च अकार्षीत् कृतवान् । रुदतस्तानाश्वासितवानित्यर्थ । मालिनीवृत्तम् ॥ ५४ ॥

 तस्मादिति। पार्थोऽर्जुन तस्मात् व्यासात् प्रतिक्ष्रुतिरिति । तन्नाम्नीमित्यर्थ । विधा शैवी प्रतिपद्य लब्ध्वा धर्मतनयेन आलिङ्गय विसृज्यमान । अनुज्ञात सन्नित्यर्थ । कृपाजळनिधे शुभो चरणयो अर्चनाभि पूजाभि । यद्वा चरणा र्चनाभि कृपाजलनिधे दयमानात् शभो सदाशिवादिति वा। परमास्र पाशुपत आप्तु लब्घु हिमाचल हिमवन्त प्रत्यगात् गतवान् । अत्र पाशुपतास्त्रलाभशिवचरणार्चनयो कार्यकारणयोर्दूयोरुक्तेर्हेत्वलकार ॥ ५५ ॥

 यस्मिन्निति । हिमानी हिमसहति बिभर्तीति तस्मिन् शीतशैले यक्षाणा देवयोनिविशेषाणा वृन्द नलिनेक्षणाना कामिनीना सर्वेषु अखिलेष्वनेषु मकुलेषु मनोहरेषु सत्स्खपि । नखान् पचति कथयतीति नखपच उष्ण ऊष्मा यस्मिस्त-


  1. “अस्मात्’ इति पाठ