त्र्कमेण त [१]सजानय विलङ्चय विविधानि विपि[२]नानि जह्नमुनिकर्णश[३]ष्कुलीपथबशेन शिक्षितैर्गतिविशेषैरिव ग[४]भीरैरावर्तैरुपासि[५]कजनताहृतानि ससारचक्राणीव दर्शयन्तीं कोकनदवदनोदितैरिव[६] कोककुटुम्बकूजितै[७] कुमारस्य देवत्रतस्य [८]क्रुशल पृच्छन्तीमिव भागीरथी पुरस्कृत्य तत्र[९] ता निशीथिनी पश्चाच्चक्त्रु ।
अपरेयुरतिमात्रबुभुक्षितानुयात्रिकसत्रिजनपरित्राणाय पवित्रै स्तोत्रै[१०] प्रसेदुषा चित्रभानुना दत्तमक्षय्यमन्नपात्रमादाय ते[११] कलत्रे निदधु ।
क्रमेणेति । समाना एफा जाया येषा ते सजानय ते पाण्डवा विविवानि विपिनानि वनानि क्रमेण विलङ्घय अतिक्रम्य । जडोर्नाम मुने कर्ण शष्कुलीव। तस्या पन्था कुटिलमार्ग तद्वशेन । तत्र सचारबलेनेत्यर्थं । शिक्षितै अभ्यस्तै गतिविशेषे चक्रगमनैरिव स्थितै गभीरै निम्नै आर्वौ भ्रमिभि । तदूथाजेनेवे त्यर्थ । उपासिकाया आत्मसेविकाया जनताया जनसमूहात् । 'ग्रामजन-' इत्यादिना समूहार्थे तल् । आहृतानि उपाकृष्टानि ससाराण्येव चकाणि दर्शयन्ती मिप स्थिता कोफ्नद रक्ताब्जमेव वदन तस्य उदितै भाषितैरिव स्थितै तस्मा- दुदितै । ‘आविभूते ’ इति वा । अभिहित पाठ सुगन्ध । ‘रक्तम्बुजे कोकन दमू' इति नानार्थरत्नमालायाम् । कोककुटुम्बाना चक्रवाकमिथुनाना कूजितै शब्दै कुमारस्य स्वपुत्रस्य देवव्रतस्य भीष्मस्य कुशल पृच्छन्तीमिव स्थिताम् । भगी रयस्य नाम राजर्षेरपत्य भागीरथी गङ्गा पुरस्कृत्य अग्रे कृत्वा । तीर प्रप्येति यावत् । तत्र गङ्गातीरे ता निशीथिनी प्रथमा रात्रि पश्चाच्चक्त्रु नयन्ति स्म ॥
अपरेद्युरिति । अपरेधु परस्मिन्दिने ते पाण्डवा अतिमात्र अत्यन्त बुभुक्षिताना क्षुधिताना अनुयात्रिकाणा सहागन्तृणाम् । अनुयात्रा प्रयोजनमेषामित्यर्थे ककू । सत्र कतुरेषामस्तीति सत्रिणा यज्वना जनाना परित्राणाय । बुभुक्षाशमनायेत्यर्थ । पवित्रै स्तोत्रै वैदिकै प्रसेदुषा प्रसन्नेन चित्रभानुना सूर्येण दत्त क्षेतु शक्य न भवतीत्यक्षरय अन्नपात्र आदाय कलत्रे निदधु । द्रौपधै समर्पयनित्वर्थ ॥