ध्ष्टवा भिया सदसि धावनमाचरन्त्या |
तत्र स दुर्मेधा बलवदा[२]कर्षणोभ्दिदुराणि स्वेदपृषन्तीव भूषा[३]जालकमुक्ताफ़लानि धारयन्त्याश्चिकुरभा[४]रात्करतलनिष्पीडननिर्गलिता कालिमाधारामिव निर्भरकुवलयगर्भकमाल्यरसझरीमक्षुभि सह वर्षन्त्यास्तस्या पातिव्रत्यलक्ष्मीनिवासस्फटिकप्राकारमिव दुकूलम[५]प्या- हर्तु प्रवतेत ॥
दृष्टवेति । दृष्टवा त आगत वीक्ष्य भिया भयेन सदसि सभाया धावन इतस्तत पलायन आचरन्त्या कुर्वन्त्या आनताङ्गया द्रौपद्या कैश्ये केशपाशे स दु शासन कराङ्गुलिं चकार । कराग्रेण वेणी गृहीतवानित्यथे महीपस्य धृतराष्ट्रस्य पुरध्रिवर्गा अन्त पुरस्त्रीसधा वक्षोरुहेषु कुचेषु कराइलिं चत्रुक् । दु खादिति भाव । नदीसुताद्य भीष्मादय सुधिय सज्जनाश्च नासाया नासिकाया अश्रसीम्नि अग्रदेशे कराङ्गुलि चत्रुक् । अहो दुर्लब्यता दैवस्येत्याक्ष्चर्यादिति भाव ॥३७॥
तत्रेति । तत्र सभाया दुष्टा मेधा बुद्धिर्यस्य तथोक्त दुर्मेधा । 'नित्यमसि च्प्रजामेधयो’ इत्यसिञ्चू । स दु शासन बलवत् दृढ आकर्षणेन उभ्दिदुराणि अछुरितानि स्वेदस्य पृषन्ति बिन्दूनि इव स्थितानि भूषाया जालकस्य मुक्ताफलानि धारयन्त्या चिकुरभारात् केशपाशात् करतलेन निष्पीडनात् निर्गलिता कालिन्न नैस्यस्य धारामिव स्थिता निर्भराणि सान्द्राणि कुवलयानि गर्भे मध्ये यस्य तस्य तादृशगर्भस्य । तन्मयस्वेत्यर्थं । शैषिक कप् । माल्यस्य रसझरीं मकरन्दधारा अक्षुभि सह वर्षन्त्या तस्या द्रौपद्या पातिव्रत्यलक्ष्म्या यो निवास गृह तस्य स्फटिकमय प्राकारमिव स्थित दुकूल धवलाशुक आहर्तुं आक्रडु प्रावर्तत उपत्रक्न्तवान् । उत्प्रेक्षात्रयसृष्टि ॥
तादृक्ष इति । सा द्रौपदी तादृक्षे तथाविधे परिभवे अवमाने समुपस्थिते प्राप्ते सति सभ्येषु भीष्मादिषु सभाजनेषु वाचयमेषु तूष्णींभवत्सु सत्सु । धर्म-